________________
अ. ३ पा. ४ सू. ८ )
अणुभाष्यम् ।
२७२
क्षास्ते पूर्वपक्षा एवेत्यलमुक्त्वा । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ( म. ना. १०।५ ) इति श्रुत्या कर्मप्रजाधनैर्मोक्षाप्राप्तिमुक्त्वा त्यागेन तत्प्राप्तिरुच्यते । त्यागविषयस्यान्यस्यानुक्त्या सांनिध्यात् कर्मादीनामेव ५ त्यागोभिप्रेतः । तथाच मुक्तोपसृप्यत्वाद्भगवत उक्तसाधनेन मुक्ताः सन्तो नाकं परेण विद्यमानमपि भक्त्या - गुहायां विभ्राजते यत् । यस्मात्परं नापरमस्ति ( म. ना. १० । ५ ) इत्यादिनोपक्रान्तत्वात्पुरुषोत्तमस्वरूपं यतयो विरहभावेन तद्विना स्थातुमशक्तास्तत्प्राप्त्यर्थं यतमाना विशन्ति इति भक्तिमार्गीयाणां फलमुक्तम् । अग्रे - वेदान्तविज्ञान ( म. ना. १०१६ ) इत्यृचा ज्ञानमार्गीयाणां फलमुक्तम् । अन्यथा पौनरुक्त्यं स्यात् । एवं कर्मज्ञानाभ्यामधिको भक्तिमार्गस्तत्प्राप्यः पुरुषोत्तमश्च श्रुतावुपदिश्यत इति तदेकप्रमाणवादिनो बादरायणस्य मतमप्येवं जैमिनिमतादधिकमित्यर्थः । एवं श्रुत्वा परमतं निरस्य विश्वासार्थं स्वानुभवमपि प्रमाणयति। तद्दर्शनादिति । शिष्य उक्ताधिक्यवत्त्वेनैव भगवतो भक्तिमार्गस्य चानुभवादित्यर्थः । श्रुतयो - १५ धिक मात्मानं दर्शयन्तीति न व्याख्यानम् । उपदेशपदेन पौनरुक्त्यापत्तेः । तन्मतमनिरस्य तस्मात् स्वमत आधिक्यमात्रोक्त्या निष्कामकर्मणश्वित्तशुद्धिहेतुत्वेन परम्पराज्ञानमार्गोपयोगाङ्गीकारोत्र सूच्यते । पुष्टिभक्तिमार्गे तु सोपि न । यन्न योगेन ( भा. ११/१२/९ ) इति वाक्यात् । एवं सति क्व कर्मशेषन्वगन्धोपि ब्रह्मणीति भावः || ३|४|८ ॥
१०
तुल्यं दर्शनम् || ३ | ४|९ ॥
यदुक्तमाचारदर्शनात् कर्मशेषत्वं ब्रह्मण इति तदपि न साधीयः । तुल्यं यतो दर्शनम् । ब्रह्मविदां शुकतृतीयजन्मवदार्षभादीनां त्यागदर्शनात् । एतेन यद्विदां कर्मत्यागस्तस्य कर्मशेषत्वं कथं शङ्कितुमपि शक्यमिति भावः सूच्यते । एतेन कर्मण्यशक्तान् प्रति त्यागविधिरिति निरस्तम् । २५ शुकादीनामतथात्वात् ॥ ३४९ ॥
ननु - जनको ह वैदेह (बृ. ३ | १ | १ ) इति श्रुतिसाहाय्यादावारदर्शनं त्यागदर्शनादधिकबलमित्यत उत्तरं पठति ।
·
२०