________________
२७१ १ पुरुषार्थोत इत्यधिकरणम्। [अ. 3 प. पू. ८ यथा कर्मकरणे नियमः श्रूयते न तथा तत्त्याग इति नोक्तपक्षः साधुरित्यर्थः । चकारात्-नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ( भ. १८७ ) इत्यादिरूपा स्मृतिः समुच्चीयते ॥ ३॥४७॥ ५ त्यागविधिरशक्तविषय इत्युक्तमिति प्राप्त प्रतिवदति । अधिकोपदेशात्तु बादरायणस्यैवं तदर्शनात् ॥ ३॥४॥८॥
तुशब्दः पूर्वपक्षं व्यवच्छिनत्ति । यदुक्तं शेषत्वात्पुरुषार्थवाद इति तन्नोपपद्यते । कुतः । अधिकोपदेशात् । कर्मसाम्यमपि न वक्तुं शक्यं
यत्र तत्र तच्छेषत्वं दूरापास्तम् । यत ईश्वरः कर्मणः सकाशादधिक १० उपदिश्यते । तथाहि । स वा अयमात्मा सर्वस्य वशी सर्वस्येशानः सर्व
स्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंच । स न साधुना कर्मणा भूयानो एवासाधुना कनीयान् (बृ. ४।४।२२ ) इत्युपक्रम्याग्रे पठ्यतेतमेतं वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन
चैतमेव विदित्वा मुनिर्भवत्येतमेव प्रवाजिनो लोकमभीप्सन्तः प्रव्रजन्ति १५ (बृ. ४।४।२२ ) इत्यादि । एवं सति यज्ज्ञानसाधनत्वं यज्ञे तस्य
यज्ञशेषत्वं कथं स्यात् । किंतु यज्ञस्य तद्वेदनशेषत्वम् । एतेनेज्यत्वेन तच्छेषत्वं प्रत्युक्तं वेदितव्यम् । तज्ज्ञानस्य यागपूर्वाङ्गत्वात् तद्विशिष्टस्य तस्य ब्रह्मज्ञानसाधनत्वात् । न च पूर्वं सामान्यत इज्यज्ञानमासीद यज्ञेन विशेषतो ज्ञाने सति पुनर्यज्ञकरणे पूर्ण कर्मफलं भवतीति न तदशेषत्व२० मिति वाच्यम्। तमेव विदित्वा मुनिर्भवत्येतमेव प्रवाजिनो लोकमभीप्सन्तः .पवजन्ति (बृ. ४।४।२२) इति श्रुतेस्तवेदनस्य गार्हस्थ्यविरोधित्वेन तदसंभवात् । यश्च साध्वसाधुकर्मफलसंबन्धरहितस्तस्य कर्तृत्वेन तथात्वमनुपपन्नमतो जीवात्मन एव तथात्वं न तु परस्य । न चैतयोस्तिवा
भेदान्नैवमिति वाच्यम् । वास्तवाभेदाज्नीवेप्युक्तश्रुतिभ्यस्तथात्वस्य २५ सुवचत्वात् । वास्तवाभेदस्य पूर्वमेव निरस्तत्वात्तमादाय ये पूर्वप
19-M, A, C and' D read rattâ for
arattati