________________
अ. 3 पा. सू..]
अणुभाष्यम् ।
२७०
व्यासः । ब्रह्मविदां त्यागावश्यकत्वे गार्हस्थ्यमेतेषां न स्यादिति भावः । उक्तश्रुतिस्तु कर्मण्यशक्तानां तेषां त्यागमनुवदति।लोकैषणायाश्च व्युत्थाय (बृ. ४।४।२२) इति श्रुतेर्लोकसंग्रहार्थं तत्करणमिति न वक्तुं शक्यम् ॥ ३॥४॥३॥
तच्छ्रुतेः॥४॥४॥ ब्रह्मविदः कर्माचारनिरूपकश्रुतेरित्यर्थः । सा च- जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे (बृ. ३२१।१) इत्यादिरूपा। तथा च ज्ञानेनैवासिद्धिश्चेत् स्यात्तदा तद्वत आयाससाध्ये फर्मणि प्रवृत्तिर्न स्यादिति भावः॥ ॥४॥४॥
समन्वारम्भणात् ॥३॥४॥५॥ तं विद्याकर्मणी समन्वारभेते (बृ. ४।४।२ ) इति श्रुतिः फलारम्भे विद्याकर्मणोः साहित्यं दर्शयतीति न स्वातन्त्र्यं विद्यायाम् ॥४५॥
___ तद्वतो विधानात् ॥ २४॥६॥ १५ ब्रह्मिष्ठो ब्रह्मा दर्शपूर्णमासयोस्तं वृणीते ( आ. सू. ३॥१८१ )
इति कल्पश्रुत्या ब्रह्मविदो ब्रह्मत्वेन वरणं विधीयत इति ब्रह्मज्ञानस्याविज्याधिकारसंपादकत्वात्कर्मशेषत्वमेवेत्यर्थः ॥ ॥४॥६॥
ननु-यदहरेव विरजेत्तदहरेव प्रव्रजेत् । गृहाद्वा प्रव्रजेदनाद्वा (जा. ४) इत्यादिश्रुतिभ्यो विहितत्वाविशेषात् कर्मतत्त्यागयोरैच्छिको २० विकल्पोङ्गीकार्योतो न शेषिशेषभाव इत्यत उत्तरं पठति ।
नियमाञ्च ॥३॥४॥७॥ आश्विनं धूम्रललाममालभेत यो दुर्ब्राह्मणः सोमं पिपासेत् (तै.सं. २।१।१०) ऐन्द्रामं पुनरुत्सृष्टमालभेत य आतृतीयात्पुरुषात्सोमं न पिबेद् विच्छिन्नो वा एतस्य सोमपीथो यो ब्राह्मणः सन्नातृतीयात्पुरुषात् सोमं न २५ पिबति । (तै. सं. २।१।१५) यावज्जीवमग्निहोत्रं जुहुयात् इत्यादिश्रुतिभ्यो