________________
२६९
[ अ. ३ पा. ४ सू. ३
१ पुरुषार्थात इत्यधिकरणम् | पदेशाच्च मुक्तेरपरमपुरुषार्थत्वात् सा भवतु नामान्यैः साधनैः । वस्तुतः परमपुरुषार्थो य उक्तरूपः सतु सर्वात्मभावेनैवेति ज्ञापनाय फलपदमनुक्त्वा पुरुषार्थपदमुक्तम् । एवं सत्यस्य सूत्रस्यार्थान्तरमपि व्यासाभिमतमिति ज्ञायते । तथा सत्ययं श्लिष्टः प्रयोगः । तथाहि पुरुषार्थो भगवानेव । ५ कुतः। अतः शब्दात् । अतः पदविशिष्टश्रुतिवाक्यादित्यर्थः । तैत्तिरीयोपनिषत्सु पठ्यते । अतः परं नान्यदणीयस हि परात्परं यन्महतो महान्तम् । यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् ( ना. ११ ) इति ॥ ३|४|१ ॥
१०
अथात्र प्रत्यवतिष्ठते । शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः || ३|४२ ॥
विष्णोरिज्यत्वेन कर्मशेषत्वात् तत्स्वरूपज्ञानपूर्वको यागः फलातिशयहेतुरिति तन्माहात्म्यमुच्यत इत्यर्थवादरूपं तत् । अत्र दृष्टान्तमाहयथान्येष्विति। अन्येषु द्रव्यसंस्कारकर्मसु - यस्य पर्णमयी जुहूर्भवति न स पाप लोक शृणोति (तै. सं. ३/५/७ ) यदा चक्षुरेव भ्रातृव्यस्य १५ वृङ्क्ते ( तै. सं. ६ | १|१ ) यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद् यज्ञस्य क्रियते वर्म यजमानस्य भ्रातृव्याभिभूत्यै ( तै. सं. २/६/१ ) इत्येवंजातीयिका फलश्रुतिरर्थवादस्तद्वदित्यर्थः ॥ ३४२ ॥
ननु - तमेव विदित्वा मुनिर्भवत्येतमेव प्रवाजिनो लोकमीप्सन्तः प्रव्रजन्ति (बृ. ४।४।२२ ) एतदग्रे च ते ह स्म पुत्रैषणायाश्व वित्तैष२० णायाचं लोकैषणायाश्च व्युत्थायाथ मिक्षाचर्यं चरन्ति (बृ. ४।४।२२ ) • इति श्रुतिर्भगवज्ज्ञानवतः सर्वत्यागं वदतीति न त्वदुक्तं साधीय इत्यत उत्तरं पठति ।
आचारदर्शनात् || ३|४|३ ||
ब्रह्मविदामपि वसिष्ठादीनामग्निहोत्रादिकरणं जैमिनिः पश्यतीति २५ तदाचारं प्रामाणिर्कमिति च मनुत इति तन्मतमनुवदन्निममप्यनूक्तवान्
१ तदाचारं प्रामाणिकं च मनुते इति प्रकाशपाठः साधीयान् ।