________________
अ. 3 पा. १ सू. १] अणुभाष्यम् ।
२६० तृतीयाध्याये चतुर्थः पादः ॥
१ पुरुषार्थोत इत्यधिकरणम् । पुरुषार्थोतः शब्दादिति बादरायणः॥ १४॥१॥
उपासनाभेदेप्युपास्याभेदाच्छाखान्तरोक्तधर्माणामप्युपसंहारः कर्तु५ मुचित इति पूर्वपादे निरूपितमिति तन्न्यायेनोत्तरकाण्डप्रतिपाद्यब्रह्मफल
कसर्वात्मभावपि पूर्वकाण्डप्रतिपादितकर्मणामुपसंहारः प्राप्नोति न वेत्यधुना विचार्यते । विधिपक्षे तत्सहकृतस्यास्य फलसाधकत्वमिति सिध्यति । निषेधपक्षे तु केवलस्येतीममेव पक्षं सिद्धान्तत्वेनाह । पुरुषार्थ इत्यादिना । सिद्धान्ते ज्ञाते तत्र पूर्वपक्षसंभव इत्यादौ तमेवाह । अतः सर्वात्मभावादेव १. केवलात् पुरुषार्थः सिध्यति। कुतः । शब्दात् श्रुतेरित्यर्थः । श्रुतिस्तुनायमात्मा प्रवचनेन ( मुं. ३।२।३) इत्युपक्रम्य-यमेवैष वृणुते (मुं. ३।२। ३) इत्यादिका । ब्रह्मविदाप्नोति परम् (ते. २१) इत्यादिका-तमेवं विद्वानमृत इह भवति (नृ. पू. १।६) इति । सनत्कुमारनारदसंवादे-यत्र नान्यत्
पश्यति (छां. ७२४।१ ) इत्याद्यात्मिका छान्दोग्यश्रुतिश्च । एतदादि१५ श्रुतिषु पूर्वोक्तरीत्या केवलस्यैव भगवद्भावस्य फलसाधनकत्वं श्रूयत इति तथा।अत्र-फलमत उपपत्तेः (ब. सू. ३।२।३८) इत्यत्रेवोपपत्तिं हेतुत्वेनानुक्त्वा श्रुतिपदं चानुक्त्वा शब्दपदं यदुक्तवांस्तेन श्रुतिस्मृत्यात्मकः सर्वोपि प्रमाणशब्दो हेतुत्वेन व्यासाभिमत इति ज्ञायते । तेन-केवलेन हि भावेन
गोप्यो गावः खगा मृगाः । अन्ये मूढधियो नागाः सिद्धा मामीयुरञ्जसा॥ २० यन्न योगेन सांख्येन दानव्रततपोध्वरैः । व्याख्यास्वाध्यायसंन्यासैः प्राप्नुयाद्यत्नवानपि ॥ (भा. ११।१२।८-९) इत्यादिरूपा स्मृतिरपि संगृह्यते । एतेन श्रुत्यादिप्रमाणवादिनामिदमेवाभिमतं तद्विरुद्धवादिनामितोन्यदिति तेषामप्रामाणिकत्वं ज्ञाप्यते । अत एव स्वनाम गृहीतम् । स्वस्य वेदव्यास
कर्तृत्वेन तत्रैव यतो भरः । अपरं च वैदिकसिद्धान्ते भगवत्स्वरूपस्यैव २५ स्वतन्त्रपुरुषार्थत्वात् प्राप्ततत्स्वरूपाणां मुक्त्यनिच्छाकथनान्मुक्तोपसृप्यव्य
१ एतन्नामाधिकरणमालायो नोपलभ्यते ।