________________
२६७ २५ न वा तत्सहभावाश्रुतेरित्यधिकरणम् । [ अ. 3पा. ३ . ६६
श्रूयते । श्रीभागवते च - नमस्ते रघुवर्याय ( भा. १०/४०/२० ) इत्यादिरूपा स्तुतिर्ब्रजनाथे । एवं सति रूपभेदेपि भगदवतारत्वस्याविशिष्टत्वादेकस्मिन् रूपे रूपान्तरसमाहारो दृश्यत इति सर्वरूपत्वेनै कत्रोपासनमपि साध्वित्यर्थः || ३|३|६३ ॥
गुणसाधारण्यश्रुतेश्व ॥ ३ | ३|६४ ॥
ऐश्वर्यवीर्यादिगुणानां सर्वेष्ववतारेषु साधारण्यं श्रूयते । तेन धर्मिधर्माणामैक्यात् पूर्वोक्तं साध्वित्यर्थः || ३|३|६४ ॥ २४ ॥
२५ न वा तत्सहभावाश्रुतेरित्यधिकरणम् । न वा तत्सहभावाश्रुतेः ॥ ३।३।६५ ॥ नन्वेवमुपासनं नित्यमुत वैकल्पिकमिति संशय उक्तरीत्या नित्यत्वे प्राप्ते तन्निषेधमाह । नेति । किंतु वा विकल्प एवैवमुपासन ऐच्छिकस्तत्र हेतुमाह । सहभावाश्रुतेरिति । नियमतस्तेषां रूपाणां सहभावश्रवणं चेत्स्या तदा स्यात्तथोपासनस्य नित्यता । न त्वेवमतो विकल्प एवेत्यर्थः ॥ ३।३।६५ ॥
१५
•
-
दर्शनाच्च ॥ ३।३।६६ ॥
योपि रूपान्तरसमाहारपूर्वकमुपास्ते सोप्येकं रूपमुपास्यत्वेन मत्वा तत्तथोपास्त इति फलं तस्यैकस्यैव रूपस्य दर्शनं भवति न तु सर्वेषामि - तोपि हेतोर्विकल्प एवेत्यर्थः । एतद् दृष्टान्तेन यस्मिन् रूपे यादृग् धर्मवत्त्वं श्रूयते तादृग् धर्मविशिष्टमेवैकं रूपमुपास्यमिति व्यासहृदयमिति ज्ञायते । २० उपासनानिर्णयान्ते दर्शनात्मक हेतुक्त्या सर्वोपासनानां भगवत्साक्षात्कारः
फलमिति ध्वन्यते माहात्म्यज्ञापनार्थम् । परं सर्वावताररूपत्वं यथार्थमेव कैश्विज्ज्ञाप्यते । यथार्थत्वात्तदप्यविरोधीति ज्ञेयम् || ३|३|६६ ॥ २५ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते व्याससूत्राणुभाष्ये तृतीयाध्यायस्य तृतीयः पादः ॥ ३३ ॥
21-C reads ज्ञाप्यते for ध्वन्यते ।