________________
4. पा. . सू. ६०] अणुभाष्यम् ।
२६६ __ येषु तूपासनेषु भिन्नानि भिन्नानि फलान्युच्यन्ते तत्र त्वनेकफलार्थिनस्तत्तत्फलकोपासनानि समुच्चीयेरन्नविशिष्टफलत्वाभावात् । यत्र त्वेकस्यैवोपासनस्य स्वकामितानेकफलकत्वं श्रूयते तत्र तथैव चेदुपासनं करोति तदा न समुच्चीयेरन्नपि । स्वकामितेष्वेकतरस्य तदन्यफलवैशिष्ट्ये५ नाविशिष्टफलत्वाभावादितिपूर्वहेत्वभावादितिश्लिष्टप्रयोगाभिप्रायेणोक्तमिति ज्ञेयम् । ___ अथवा कामैक्ये नियतफलकानि तानि न समुच्चीयेरन् । अत्र हेतुः स्पष्टः ॥ ३३॥६०॥२२॥
___२३ अङ्गेष्वित्यधिकरणम् ।
अङ्गेषु यथाश्रयभावः ॥ ३।३।६१ ॥ प्रधानेषु निर्णयमुक्त्वाङ्गेषु तमाह। एकार्थसाधकानामुपासनानां भेदेनाङ्गभेदेप्येकतरोपासने फलैक्यादङ्गानि तत्र समुच्चीयेरन्न वेति संशये निर्णयमाह । उपासनाङ्गानां तदेवाश्रयस्तथा च यदङ्गं यदुपास
नाश्रितं तत्रैव तस्य भाव इत्यर्थः ॥ ३३॥६१॥ १५ अत्र हेतुमाह।
__शिष्टेश्च ॥ ३।३।६२ ॥ तत्तदुपासनं तत्तदङ्गविशिष्टमेव वेदे शिष्यत इति तथेत्यर्थः। चकारादतिरिक्तकरणे प्रायश्चित्तोक्तिरपि बाधिकेति सूच्यते ॥ ३॥३६२ ॥ २३॥
२४ समाहाराधिकरणम् ।
समाहारात् ॥ ३॥३॥६३ ॥ कर्ममार्गीयोपासने निर्णयमुक्त्वा ज्ञानमार्गीयोपासने तमाह । अथर्वोपनिषत्सु नृसिंहोपासनादिषु मत्स्यकूर्मादिरूपत्वेनापि स्तुतिः 1-M and C.om भिन्नामि after भिन्नानि ।