________________
२६५ २२ काम्यास्त्वित्यधिकरणम्। [अ. 3 पा. 3 सू. ६० न हि लोक एवं संभवत्यात्मपदानां भगवद्वाचकत्वादिति सर्वोत्तमविषयकभावस्यैव तथात्वं युक्तमिति चोपपत्तिर्हिशब्देन सूच्यते ॥३३५७ ॥ १९॥
२० नानाशब्दादिभेदादित्याधिकरणम् ।
नानी शब्दादिभेदात् ॥ ३५८॥ ५ पूर्वाधिकरणैः सर्वात्मभावस्वरूपादिनिर्णयं कृतवान् । अथ मत्स्यादिरूपाणां भगवदवतारत्वमविशिष्टमिति सर्वेषां समस्योपासना कार्योत पार्थक्येनेति विचारयति । अत्रोपास्याभेदेपि रूपभेदादेकत्रोपासकस्यान्यत्रानुपासनलक्षणावज्ञासंभवादस्या अप्यसिद्धिसंभवादपि समस्यैव सा कार्येति प्राप्ने सिद्धान्तमाह । सर्वेष्ववतारेषु नानैवोपासना कार्या । तत्र । हेतुः शब्दादिभेदादिति । तत्तत्स्वरूपवाचकशब्दानां मन्त्राणां चादिपदादाकारकर्मणां च भेदादित्यर्थः । एतेनैव मिथोविरुद्धानामाकारकर्मणामेकत्र भावनस्याशक्यत्वमयुक्तत्वं चेति भावः सूचितः ॥ १।५८॥२०॥
२१ विकल्प इत्यधिकरणम् ।
विकल्पोविशिष्टफलत्वात् ॥३॥६॥५९॥ १५ पार्थस्येनोपासनानि कर्तव्यानीति स्थिते विचार्यते । किमग्निहोत्र
दर्शपूर्णमासादिवदेषां समुच्चय उत फलविकल्प इति । तत्र विधिफलयोः समानत्वात्समुच्चय इति प्राप्ते निर्णयमाह । उपासनानां विकल्प एव । तत्र हेतुरविशिष्टफलत्वात् ।
___ मुक्तिफलकत्वं हि सर्वेषामुपासनानामविशिष्टम् । एवं सत्येकेनैव १० तत्सिद्धावपरस्याप्रयोजकत्वादग्निहोत्रादिवन्नित्यताबोधकश्रुत्यभावात्तदर्थि• नो विकल्प एव ॥ ३३१५९॥ २१ ॥
२२ काम्यास्त्वित्यधिकरणम् । काम्यास्तु यथाकामं समुच्चीयेरन्न वा
पूर्वहेत्वभावात् ॥ २३॥६० ॥ १।। एतन्नामाधिकरणमालायां न लभ्यते ।
[अणुभाष्य
AM