________________
..:: . 3 ५. ५७] अणुभाष्यम् ।
२६४ आसीदिति श्रूयते । तथा दुःखहेतुत्वेप्यनन्यलभ्यसाक्षात्पुरुषोत्तमानन्दप्राप्तिहेतुत्वेन सुखरूपत्वमुच्यत इत्यन्येभ्यः सर्वेभ्यो ज्यायस्त्वं मन्तव्यमित्यर्थः । अत्रोपपत्तिमाह । तथाहि दर्शयति। श्रुतिस्तु-स एवाधस्तात् (छां. ७२५१) इत्याद्युक्त्वा-अथात्मादेशः (छां.१२५।१) ५ इत्याद्युक्तवत्यग्रे चैतादृशस्यात्मन एव प्राणाशास्मरादि सर्वमिति च दर्शयति एतत्सर्वात्मभाववत्येव सर्वमुपपद्यते न मुक्तस्य।वृत्तिभेदाभावात् प्राणायभावाच्च । जीवन्मुक्तिदशायां प्राचीनानामेव सत्त्वादात्मनः प्राणा इत्यादि न वदेत् । यद्वा ननु लोकेपि शृङ्गाररसभाववति पुंसि नार्यां च त्वदुक्तभावसंबन्धिव्यभिचारिभावाः श्रूयन्ते । सैव सर्वत्र स एव सर्वत्रेति । एवं १० सति लौकिकसधर्मवत्त्वान्न त्वदुक्तभावस्यालौकिकज्ञानादिभ्य आधिक्यं
वक्तुं शक्यमलौकिकविषयत्वाल्लौकिकत्वमपि न तथेति भवति संशयः । तत्र मनुजत्वरिपुत्वादिज्ञानानामिव कामादिभावेन स्नेहभावस्यापि संभवान्नास्यालौकिकत्वमिति पूर्वः पक्षः। सिद्धान्तस्त्वस्य लौकिकेभ्यो ज्यायस्त्वं मन्तव्यम् । ननूक्तं लोकसाधारण्यं बाधकमिति शङ्कानिरासाय निदर्शन१५ माह । क्रतुवदिति । यथा दर्शादिषु दोहनाधिश्रयणातञ्चनव्रीह्यवघातादिपुरोडाशभक्षणादीनां लौकिकक्रियातुल्यत्वेन दर्शनेपि न लौकिकत्वम् । लौकिकप्रमाणाप्राप्तत्वादलौकिकतत्प्राप्तत्वात्तथोक्तप्रमाणरूपवरणलभ्यत्वेन श्रुत्युक्तत्वान्न लौकिकत्वमस्य भावस्येति दिक् ।
वस्तुतस्तु ग्रामसिंहस्य सिंहस्वरूपत्वेपि न ताद्रूप्यं वक्तुं शक्यम् । २० तथा लौकिकपुंसि नार्यां वा तदाभासो रसशास्त्रे निरूप्यते । तदृष्टान्तेन भगवद्भाववद्भक्तरीतिभावनार्थं नतु ऋषीणां लौकिके तात्पर्य भवितुमर्हति । अत्रोपपत्तिमाह । तथा हीत्यादि । पूर्वोक्तभाववत आत्मनः प्राणादिकं सर्वं दर्शयति श्रुतिः । तस्य ह वा एतस्यैवं पश्यतः ( छां. ७।२६।१ ) इत्यादिना । इतः पूर्वमपि-स वा एष एवं पश्यन् ( छां. ७।२५।२ ) २५ इत्युपक्रम्य-आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड़
भवति सर्वेषु लोकेषु कामचारो भवति ( कां. ७।२५।२ ) इति श्रुतिश्च ।