________________
२६३
१९ भन्न इत्यधिकरणम् । [4. 3 पा. 3 सू. ५७ दृष्टान्तविरोध इत्यर्थः। अथवा ॐ मित्युदाहृत्यैव मन्त्राणामुच्चारणान्मन्त्रादिरोंकारः। स यथा ब्रह्मात्मकत्वेनैक एव सर्वमन्त्रेषु संबध्यते । तथा वरणमपीति तथेत्यर्थः । यद्यपीतरनिष्ठानन्तरभतभक्तिनिष्टावतोपि वरणं तथाभूतमेकमेवेति नोक्तदोषस्तथाप्युत्कृष्टमार्गे वृतस्य नीचकक्षापादनमनु५चितमिति मत्वा पक्षान्तरमुक्तम् । वस्तुतस्तु साधनमर्यादया यत्र भक्तिर्दित्सिता तत्र तथेति नानुपपत्तिः काचित् ॥ ३॥३॥५६॥१८॥
१९ भूम्न इत्यधिकरणम् । भूम्नः कतुवज्ज्यायस्त्वं तथाहि दर्शयति ॥ ३॥३१५७ ॥
ननु सुखस्वरूपजिज्ञासायां-यो वै भूमा तत्सुखम् (छां.७।२३।१) १० इत्युक्तं भूमस्वरूपजिज्ञासायां-यत्र नान्यत्पयति ( छां. ७।२४।१ )
इत्यादिना तयन्निरूपितं तत्सर्वात्मभावस्वरूपमिति यदुक्तं तन्नोपपद्यते । भन्नो हि सुखरूपतोच्यते । सर्वात्भावे तु विरहभावे दुःसहदुःखानुभवः श्रूयते । तेन मोक्षसुखमेव यो वै भूमेत्यादिनोच्यते । यो वै भूमा तदमृ
तम् (छां. ।२४।१ ) इति वाक्याच्च । अग्रेच-स वा एष एवं पश्यन् १५ (छां.७।२५।२) इत्याद्युक्त्वानन्तरमसंभव्यतः स भावो मोओ वात्रोच्यत इति
संशयः। कामचारोक्तेर्मुक्तिपूर्वदशायां तन्माहात्म्यनिरूपणार्थत्वादमृतशब्दाच्च मुक्तिरेव भमपदेनोच्यत इति पूर्वपक्षः । तत्र भूमशब्देन स भाव एवोच्यत इति सिद्धान्तस्तत्र दु:खदर्शनानुपपत्त्या सर्वाधिकत्वलक्षणं भूमत्वमनुपपन्नमित शङ्कां परिहरति । भूम्नः सर्वात्मभावस्य ज्यायस्त्वं सर्वस्मान्मन्त२० व्यम् । तत्रोक्तानुपपत्तिपरिहारार्थ दृष्टान्तमाह । क्रतुवदिति । दर्शपूर्णमा
सप्रकरणे तैत्तिरीयके पठ्यते-परमेष्ठिनो वा एष यज्ञोग आसीत्नेन स
परमां काटामगच्छत् (ते. सं १।६।९ ) इत्युपक्रम्य-य एवं ' विद्वान् दर्शपूर्णमासी यजते परमामेव काष्ठां गच्छति ( ते. सं.
१।६।९ ) इति । यथा व्रतादिदुःखात्मकत्येषि परमकाथा२५ लक्षणफलगमकत्वेन दर्शपूर्णमासयोः सर्वक्रतुभ्योधिकत्वं वक्तमय