________________
अ. 3 पा. ३ . ५]
अणुभाष्यम् ।
२६२
श्लोकोक्तरीत्या पुरुषोत्तमस्येव । प्रभुणा ये यथा विचारिताः सन्ति ते तथा भवन्तीति तद्विचार एव सर्वेषामधिकाररूप इति-कृतप्रयत्नापेक्षस्तु (ब. स. २।३।४२ ) इत्यत्र निर्णीतम् ॥ ३३॥५४ ॥
____ अस्मिन्नर्थे कैमुतिकन्यायकथनार्थं निदर्शनत्वेनोत्तरं पठति । ५ अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ३॥३॥१५॥
____ यागे तत्तदृत्विनियतकर्तव्यान्वाधानादीन्यङ्गानि । तत्रावबद्धाः सर्व एवविजो यजमानेन । अवबन्धनं नामाध्वर्यु त्वा वृणे होतारं त्यां वृण उद्गातारं त्वां वृणे इत्यादिरूपं वरणमेवान्यथा सर्वकर्मविदुषां तत्कृ
तिपटूनामेकत्राधिकारो नान्यत्रेति नियमो न स्यात् । तस्य तस्य तथा १० वरणे तु यजमानेच्छैव हेतुः । तेच तदा न सर्वासु शाखासु विहितान्य
ङ्गानि कर्तुं सर्वेपि शक्ताः । किंतु यजमानवरणनियमिता एव तथा । तत्र हेतुमाह । हि यतः कारणात् प्रतिवेदं नियमितान्यङ्गानि हौत्रमृचाध्वर्यबादि यजुषौद्गात्रं साम्ना इति । यथा चालौकिके वैदिके कर्मणि जीवे
च्छापि नियामिका भवति यत्र तत्र किमु वाच्यं प्रतिरोमकूपं सावकाशम१५ मितब्रह्माण्डस्थितिमतस्तदीशितुरिच्छैव नियामिका तत्तत्साधनफलसंपत्ताविति ॥ २३५५॥
मन्त्रादिवद्वाविरोधः ॥ ३॥३॥५६॥ ननु पूर्वं कर्मज्ञाननिष्टानामपि पुंसामग्रे भक्तिमार्गीयत्वं यत्र भवति तत्र तथैव भगवद्वरणमिति हि सिद्धान्तः । ऋत्विजस्त्वेकस्मिन् याग एकत्र २० वृतस्य नापरत्रापि तथेति विरुद्धो दृष्टान्त इत्यरुच्या निदर्शनान्तरमाह। यथैक एव कश्चिन्मत्रो बहुषु कर्मसु संबध्यते कश्चिद् द्वयोः कश्चिदेकत्रैव तथैव विधानात्तथात्रापीत्यर्थः । आदिपदात्कर्मोच्यते । यत्र काम्येनैव नित्यकर्मनिर्वाहस्तत्र कामितार्थसाधकत्वे प्रत्यवायपरिहारप्येकमेव तदुपयुज्यते । तथा च सर्वतोमुखेनेकहोतृप्रवरेध्वर्युप्रवरे च गृह्यमाणे देवाः २५ पितर इत्यादिना यजमानकर्तृकानुमत्रणमेकमेव सर्वत्र संबध्यते विधेस्तथात्रापि तावाद्विधं यदेकमेव वरणं तेन तन्निष्ठानन्तरं भक्तिनिष्ठेति न