________________
२६१
१८ व्यतिरेकाधिकरणम् । ( अ. ३६.५४
तथेत्यर्थः । ननुं ज्ञानविषयत्ववदाविर्भावोप्यस्तु । किंच । तदतिरिक्तमाविर्भावमपि न पश्याम इत्याशङ्कायामाह । न तूपलब्धिवदिति उपलब्धिज्ञनं तद्गुहायामाविर्भावो न भवतीत्यर्थः । यस्मै भक्ताय यल्लीलाविशिष्टं स्वरूपमनुभावयित्वा प्रभुर्भवति तद्गुहायां तल्लीलाश्रयभूतमक्षरस्वरूपं ५ वैकुण्ठलोकवदाविर्भावयतीति नोक्तशङ्कालेशोपि । यत्र पुरुषोत्तमस्य चाक्षुषत्वं तत्र ततोधःकक्षस्य तस्य तथात्वे का शङ्का नाम । एतदुपपादितं पूर्वं विद्वन्मण्डने च । ननु ज्ञानिज्ञानविषयभक्तगुहाविर्भूताक्षरयोर्भेदोस्ति न वा । नाद्यः । मानाभावादेकत्वेनैव सर्वत्रोक्तेः । न द्वितीयः । निरवयवस्य क्वचिल्लोकरूपत्वातद्रूपत्वाभ्यामेकत्वानुपपत्तेरिति १० चेत् । मैवम् । लोकरूपत्वस्य पश्चाद्भावित्वे हीयमनुपपत्तिर्न त्वेवं किंत्वक्षरस्वरूपमेव तथेति श्रुतिराह । अम्भस्यपारे भुवनस्य मध्ये ( ना . १1१ ) इत्युपक्रम्य - तदेव भूतं तदु भव्यमा इदं तदक्षरे परमे व्योमन् ( ना. १।१ ) एतदग्रे चं-यमन्तः समुद्रे कवयो वयन्ति यदक्षरे परमे प्रजा: ( ना . १ । १ ) इत्यादिरूपा । स्मृतिरपि । परस्तस्मात्तु भावोन्योव्यक्तो व्यक्तात्सनातनः । यः १५ स सर्वेषु भूतेषु नश्यत्सु न विनश्यति । अव्यक्ताक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम (भ.गी. ८/२०/२१ ) इत्यादि तु गीतासु । श्रीभागवतेपि - दर्शयामास लोकं स्वं गोपानां तमसः परम्। सत्यं ज्ञानमनन्तं यद् ब्रह्मज्योतिः सनातनम् । यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः (भा. १०।२८ | १४ । १५) इति दशमे । द्वितीये च तस्मै २० स्वलोकं भगवान् सभाजित: संदर्शयामास ( भा. २/९/९ ) इत्युपक्रम्य कालत्रिगुणमायासंबन्धराहित्यमुक्त्वा भगवत्पार्षदानुक्त्वा विमानप्रमदा उक्त्वा श्रीरुक्ता । तथा च श्रुतिस्मृत्येकवाक्यतायां तादृक्स्वरूपमेवाक्षरमिति निर्णयो भवति । एवं सति सच्चिदानन्दत्वे देशकालापरिच्छेदस्वयंप्रकाशत्वगुणातीतत्वादिधर्मवत्त्वेनैव ज्ञानिनामक्षरविज्ञानम् । भक्तानामेव पुरुषोत्तमा२५ धिष्ठानत्वेन तथेति ज्ञेयम् । मल्लानामशनिः ( भा. १० । ४३ । १७ ) इति
I
6—M, A, C and 1) read एतच्चोपपादितं for एतदुपपादितं । 21-C and D read माबादि for माया ।