________________
अ. ३ पा. ३ सू. ५३ ]
अणुभाष्यम् ।
२६०
निहितं गुहायां परमे व्योमन् । सोते सर्वान् कामान् सह ब्रह्मणा विपश्र्चिता ( तै. २1१ ) इति । अत्रोपक्रम - ब्रह्मविदाप्नोति परम् (तै २ ।१ ) इति श्रुतिरक्षरब्रह्मविदः परब्रह्मप्राप्तिं सामान्यत उक्त्वा विशेषतः कथनार्थतदेषाभ्युक्ता ( तै. २१ ) इति वाक्यं तद् ब्रह्म प्रतिपाद्यत्वेनाभिमुखी५ कृत्यैषा वक्ष्यमाणा ऋक् परब्रह्मविद्भिरुक्तेत्युक्त्वैवमुक्तवती सत्यं ज्ञानमिति । परब्रह्मस्वरूपमनुभवैकवेद्यं न शब्दादिभिर्वेद्यमिति ज्ञापनाय स्वयं तत्तत्त्वप्रतिपादिकाप्यन्यमुखेनोक्तवती । अत्र ब्रह्मणा सह सर्वकामोपभोग उक्त इत्येतदेकवाक्यतायै सर्वेषु लोकेषु कामचारो भवतीति श्रुतेरप्युक्त एवार्थो मन्तव्यः || ३|३|५३ ॥ १७ ॥
१८ व्यतिरेकाधिकरणम् । व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् || ३ | ३|५४ ॥
ननु–ब्रह्मविदाप्नोति परम् ( तै. २1१ ) इति श्रुत्याक्षरब्रह्मविदः परब्रह्मप्राप्तिरुच्यते । तत्रेतरसाधन सापेक्षं ब्रह्मज्ञानं परं प्रापयत्युत तन्निरपेक्षमिति भवति संशयः । अत्र श्रुतौ तन्मात्रोक्तेरितरनिरपेक्षमेव तत्तथेति १५ पूर्वः पक्षः । सिद्धान्तस्त्वेवं सति ज्ञानमार्गीयाणामपि परप्राप्तिः स्यात् । सात्वनेकप्रमाणबाधितेति पूर्वमवोचाम । किं च । ज्ञानशेषभूतब्रह्मापेक्षया फलात्मकस्य परस्य मुख्यत्वात्तदेषाभ्युक्तेति श्रुतिस्तदेव प्रतिपाद्यत्वेनाभिमुखीकृत्य ऋगुक्तेत्याह । तेन तत्र ब्रह्मपदे पुरुषोत्तमपरे ज्ञायेते । तथाच गुहायां यद्याविर्भूतं परमं व्योम पुरुषोत्तमगृहात्मकमक्षरात्मकं २० व्यापि वैकुण्ठं भवति तदा तत्र भगवानाविर्भवतीति तत्प्राप्तिर्भवतीत्युच्यते । यो वेद निहितं गुहायां परमे व्योमन् (तै २1१ ) इत्यनेन । तथा च ज्ञानिनां गुहासु परमव्योम्नो व्यतिरेक एव । तत्र हेतुमद्भावाभावित्वादिति । यमेवैष वृणुते ( मुं. ३।२।३ ) इति श्रुतेर्वरणाभावे भगवद्भावस्यासंभवात् ज्ञानिनां तथा वरणाभावात् भगवद्विषयको भावो न भावीति
1
21 - ख reads इत्यन्तेन for इत्यनेन ।
१०