________________
अ. 3 . ५०
अणुमाध्यम ।
२५८
भगवद्विषयणी या प्रज्ञा सा सर्वात्मभाववद्भक्तप्रज्ञातः प्रज्ञान्तरमित्युच्यते । तच्च कर्मज्ञानं तदितरभक्तप्रज्ञाभ्यः पार्थक्येन तदिष्टमेव साधयति । तथा सर्वात्मभाववतो भक्तस्य यत्प्रकारिका भगवद्विषयिणी प्रज्ञा तमेव प्रकारं स भावः साधयति नान्यमिति न मुक्तौ पर्यवसानमित्यर्थः । अत्र ५ व्यासः स्वानुभवं प्रमाणत्वेनाह । दृष्टश्चेति । उक्तभाववतो भक्तस्य प्रभुस्वरूपदर्शनायतिरिक्तफलाभावोस्माभिरेव दृष्ट इत्यर्थः । एतादृशा अनेके दृष्टा इति नैकस्य नाम गृहीतम् । अत्र शब्दमपि प्रमाणमाह । तदुक्तमिति । भगवतेति शेषः । श्रीभागवते दुर्वाससं प्रति--अहं भक्तपराधीनः
( भा. ९।४।६३) इत्युपगम्य--वशे कुर्वन्ति मां भक्त्या सस्त्रियः १. सत्पतिं यथा ( भा. ९।४।६६) इति । यो हि यद्वशीकृतः स तदिच्छा
नुरूपमेव करोत्यतो न सायुज्यादिदानं किंतु भजनानन्ददानमेव । तेषां मुक्तयनिच्छा तु- मत्सेवया प्रतीतं च सालोक्यादिचतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोन्यत् कालविप्लतम् ॥ स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः। सालोक्यसार्टिसामीप्यसारूप्यैकत्वमप्युत ॥ दीयमानं न गृह्णन्ति १५ विना मत्सेवनं जनाः ( भा. ९।४।६७-६८-६९) इत्यादिवाक्यसहस्रैनिर्णीयते ॥ ३॥३॥५०॥ न सामान्यादप्युपलब्धेम॒त्युवन्न हि लोकापत्तिः ॥२३॥५१॥ . ननु नान्यत्पश्यतीत्यारभ्य सर्वस्य सर्वात्मभावनिरूपकत्वोक्ति
रनुपपन्ना । अत एवात्मपदानां पुरुषोत्तमपरत्वोक्तिश्च । यतस्तस्य २० मुक्तावपि कामाभावः प्रतिपाद्यत । अत्र तु-तस्य सर्वेषु लोकेषु
कामचारो भवति ( छां. १२५।२ ) इति श्रुतिः पठ्यते । एवं सति न तनिरूपणमत्रेति वाच्यम् । तद्भाववतोप्यन्यकामवत्त्वमिति वा । द्वितीयस्योक्तप्रमाणपराहतत्वेनाद्यपक्ष एवाश्रयणीय इति पूर्वपक्षं निरस्यति ।
नेति । तत्र हेतुमाह । सामान्यदप्युपलब्धेरिति । तत्समानधर्मयोगादपि २५ तत्प्रयोगः श्रुतावपलभ्यतनेकशो यतः । प्रकृतेपि विविधानां लोकानां विविधसुखप्रधानत्वाद्भगवत्संबन्धिषु सर्वेषु सुखेषु कामचारो भवतीति श्रुते. रर्थो ज्ञेयः । ननु यथाश्रुत स्वास्तुि तत्राह । नहि लोकापत्तिरिति ।