________________
२५७
१७ लिङ्गभूयस्त्वाधिकरणम् । [अ. 37. 3 सू. ५०
___भूमस्वरूपं श्रुत्वा-स भगवः कस्मिन् प्रतिष्ठितः (छां.७।२४।१ ) इाते प्रश्ने-स्वे महिम्नि ( छां. ७।२४।१ ) इत्युत्तरम् । तदर्थस्तु स्वीयत्वेन वृते भक्ते यो महिमरूपः सर्वात्मभावस्तस्मिन्निति स्वरूपात्मके महिम्नीति वा भगवदात्मकत्वात्सर्वात्मभावस्य तदितरस्य साक्षात् पुरुषोत्तमापाप५ कत्वादस्यैव तत्प्रापकत्वात् परमकाष्ठापन्नमहिमत्वरूपोयमेव भाव इति महिमशब्देनोच्यते । सतु विप्रयोगभावोदये सत्येव सम्यग् ज्ञातो भवति व्यभिचारिभावैः । ते त्वनियतस्वभावा इति ज्ञापयितुं त्रिविधाः स एवाधस्तात् इत्यादिना--आत्मैवेद५ सर्वम् ( छां. ७।२६।१ ) इत्य
न्तेन निरूप्य भूमप्रतिष्ठाधिकरणप्रश्ने यदुत्तरितं-स्वे महिम्नि (छां. ७ १०२४।१) इति तमेवानुबध्नाति-स वा एष ( छां. ७२५।२ ) इत्यनेन ।
तच्छब्दस्य पूर्वपरामर्शित्वात् । एवं सति त्वदुक्तमन्यत्राप्रतिष्ठितत्वं चेदिह प्रतिपाद्यं स्यात् तदोक्तरीत्यानुबन्धं न कुर्यादहङ्कारादेशादिकं च न कुर्यादुक्कप्रश्नोत्तरं स्वान्यवस्त्वभावान्न क्वापीत्येव वदेत् । तस्मादस्मदुक्त
एव मार्गानुसर्तव्यः । आदिपदात् त्रिविधी ये भावा उक्तास्तेषामपि १५ स्वरूपम्-एवं पश्यन् एवं मन्वान एवं विजानन् (छां. ७२५४२)
इति क्रमेण यनिरूपितं तदुच्यते । पूर्व ह्यतिविगाढभावेन तदितरास्फूर्त्या तमेव सर्वत्र पश्यति । एतदेवोक्तमेवं पश्यन्नित्यनेन । ततः किंचिद्वाह्यानुसंधानेहङ्कारादेशो भवति । स त्वहमेव सर्वतः स्वकृतिसामर्थेन तं प्रक
टीकरिष्य इति मनुते । करोति च तथा । अत एवान्वेषणगुणगाने कृते २० ताभिः एतदेवोक्तमेवं मन्वान इत्यनेन । ततो निरुपधिस्नेहविषयः पुरुषोत्तम आत्मशब्देनोच्यत इति तदादेशो भवति । तदा पूर्वकृतस्वसाधनवैफैल्यज्ञानेनातिदैन्ययुक्तसहजस्लेहजविविधभाववान् भवति । तदेतदुक्तमेवं विजानन्नित्यनेन । अत एवोपसर्ग उक्तः । ततोतिदैन्येनाविर्भावे सतिं
या अवस्थास्ता निरूपिता आत्मरतिरित्यादिना । अत्रात्मशब्दाः पुरुषो२५ त्तमवाचका ज्ञेयाः । अन्यथौपचारिकत्वं स्यात् । मुख्ये संभवति तस्यायुक्तत्वात् । ननु सर्वात्मभावस्यापि मुक्तौ पर्यवसानमुत नेति संशयनिरासाय दृष्टान्तमाह । प्रज्ञान्तरपृथक्त्ववदिति । मुमुक्षुभक्तस्य स्वेष्टदातृत्वेन
३ [अणु भाष्य ]