________________
अ. ३ पा. ३ सु. ४९ ]
अणुभाष्यम् ।
1
त्मपदानामीश्वरपरत्वं स्याद्वाक्यभेद उपक्रमविरोधश्व स्यात् । तस्माद्वाक्यानुरोधात् पूर्वज्ञानप्रकारविशेष एवायमिति मन्तव्यमित्यत उत्तरं पठति । श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ३।३।४९ ॥
नैवं वाक्यानुरोधाद्वरणेन सर्वात्मभावलिङ्गभूयस्त्वं बाधितव्यम् । ५ वाक्यापेक्षया श्रुतिलिङ्गयोर्बलीयस्त्वात् । एतद्बलीयस्त्वं तु–श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यम् (जै. सू. ३|३| ३।३। १३ ) इति जैमिनीयसूत्रे सिद्धम् । प्रकृत इतरसाधननिषेधपूर्वकं - यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा वृणुते तनूं स्वाम् (मुं. ३।२।३ ) इति श्रुतिर्वरणमात्रलभ्यत्वमाह । एतदग्रेच - नायमात्मा बलहीनेन लभ्यः १० (मुं. ३२३ ) इत्युपक्रम्य - एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम (मुं. ३ | २|४ ) इति श्रुति: पठ्यते । एतच्च - वियैव तु निर्धारणात् ( ब्र. सू. ३ | ३ | ४७ ) इत्यत्र निरूपितम् । अपरं चनात्मवित्तरति शोकमात्मवित् ( छां. ७११/३ ) इति नारदवाक्यानुवादयोरात्मपदमुत्तमप्रश्नात्मकेन लिङ्गेन पुरुषोत्तमपरमिति ज्ञायते । १५ सर्वेभ्य उत्तमोतो ब्रह्मेत्युपास्यत्वेन सनत्कुमारोक्तप्रतिरूपं ततस्ततो भूयोस्तीत्यपृच्छत् । अन्ते सर्वाधिकत्वेन सुखात्मकत्वेन भूमानं श्रुत्वा तथा नापृच्छत् किंतु तत्प्राप्त्यर्थम् । अत्यार्त्या कस्मिन् प्रतिष्ठित इत्यपृच्छत् । तदा सर्वात्मभाववत्स्वेव प्रतिष्ठित इत्याशयेन सर्वात्मभावलिङ्गात्मकं भावं स एवाधस्तात् इत्यादिनोक्तवान् || ३|३|४९ ॥
२०
२५६
नन्वेतया श्रुत्यान सर्वात्मभावलिङ्गात्मको भाव उच्यते । किंतु व्यापकत्वेन सर्वरूपत्वेन स्वभिन्नाधिकरणाभावादन्यत्राप्रतिष्ठितत्वमेवोच्यत इत्यत उत्तरं पठति ।
अनुबन्धादिभ्यः प्रज्ञान्तर पृथक्त्ववद् दृष्टश्य तदुक्तम् || ३|३|५० ॥
read बाधा for बाधः ।
3- M, A and 4- M, A and C road वरणज for वरणेन