________________
२५५
१७ लिङ्गभूयस्त्वाधिकरणम् । [ अ. ३५१. ३ सू. ४९
।
निरूप्यते । न तु पूर्वोक्तात्मज्ञानप्रकारविशेषः । अत्र हेतुमाह । निर्धारणादिति । सुखं त्वेव विजिज्ञासितव्यम् ( छां. ७/२२/१ ) इत्युक्त्वा सुखस्वरूपमाह - यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्यः ( छां. ७१२३।१ ) इति । ५ अक्षरपर्यन्तं गणितानन्दत्वात्पुरुषोत्तमस्यैवानन्दमयत्वेन निरवधिसुखात्मकत्वात् स एव भूमा तस्यैव जिज्ञासितव्यत्वेन निर्धारणादित्यर्थः । भूम्नो लक्षणमग्र उच्यते । यत्र नान्यत् पश्यति ( छां. ७/२४|१ ) इत्यादिना । यस्मिञ् ज्ञाते सति नान्यत्पश्यतीत्यर्थः । तथा सति सर्वात्मभाववतः प्रभुदर्शने सत्यपि लीलोपयोगिवस्तुदर्शन! दिकमनुपपन्नमिति १० शङ्का तु तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मनः प्राणा: ( छां. ७/२६ । १ ) इत्यादिना निरस्ता वेदितव्या । तैः सह लीलां चिकीर्षतः प्रभुत एव सर्वं संपद्यते नतु भक्तसामर्थ्येनेति भावेन तदुक्तेः ॥ ३।३।४७ ॥
दर्शनाच || ३ | ३|४८ ॥
1
१५ दृश्यते च सर्वात्मभाववतां भक्तानां व्रजसीमन्तिनीप्रभृतीनां पूर्वमितरविस्मृतिर्भगवत्स्पर्शादिनाग्रे सर्वसामर्थ्यमिति व्यासः स्वानुभवं प्रमाणत्वेनाह । उक्तं च श्रीभागवते ताभिरेव । चित्तं सुखेन भवतापहृतं गृहेषु यन्निर्विशत्युत करावपि गृह्यकृत्ये । पादौ पदं न चलतः (भा. १०।२९।३४ ) इत्यादिना । तेन ज्ञानशक्तिक्रियाशक्तितिरोधानमुक्तं २० भवति । अग्रे तदाविर्भावादिकं स्फुटमेव ॥ ३|३|४८ ॥
ननु सनत्कुमारनारदसंवादात्मकमेकं वाक्यम् । तत्रोपक्रमे -मन्त्रविदेवास्मि नात्मविच्छ्रुत ँ ह्येव मे भगवदृशेभ्यस्तरति शोकमात्मवित् ( छां. ७७१।३ ) इति । सोहं भगवः शोचामि ( छां. ७।१।३ ) इत्यादिना स्वात्मज्ञानस्यैवोपक्रमादुपसंहारोपि तमादायैवोचितः । अग्रे चेदा
21 - A and C read संवादात्मकमेव for संवादात्मकमेकं ।