________________
अ. 3 पा. 3 सू. १७) अणुभाष्यम् । नेन लभ्यः ( मुं. ३।२।३ ) इति । बलकार्य हि प्रभुवशीकरणम् । तच्चअहं भक्तपराधीनः (भा. ९।४।६३ ) वशे कुर्वन्ति मां भक्त्या (भा. ९।४। ६६) इत्यादिवाक्यैर्भक्त्यैवेति बलशब्देन भक्तिरुच्यते । अन्यथा पूर्ववाक्य एवेतरनिषेधस्य कृतत्वात्पुनर्बलाभावनिषेधं न कुर्यात् । वरणमात्रस्य हेतु५ त्वमुक्त्या बलस्य तथात्वं च न वदेत् । एतादृशस्य हृदि भगवत्प्राकट्यं भवतीत्याह । एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्म धाम ( मुं. ३१२।४ ) इति । अस्यार्थस्त्वेष आत्मात्मनोप्यात्मा पुरुषोत्तमो ब्रह्माक्षरब्रह्मात्मकं धाम विशत इति धामपदं पुरुषोत्तमस्याक्षरं ब्रह्म सहजं स्थानमिति ज्ञापनार्थमुक्तमन्यथा न वदेत् । तेन तद्धृदये स्वस्था१० नमाविर्भावयित्वा स्वयं तत्र प्रकटीभवतीति ज्ञाप्यते । प्रकृते श्वेतकेतूपा
ख्याने परोक्षवादेन ब्रह्माभेदबोधनेन पुरुषोत्तमाधिष्ठानत्वयोग्यता ज्ञाप्यते। अग्रे तु न ह्येतावतैवाधिष्ठानात्मकाक्षराविर्भावो भवति पुरुषोत्तमस्य वा। तथा सति ज्ञानिनां सर्वेषां परप्राप्तिः स्यान्न त्वेवं–भक्त्याहमेकया ग्राह्यः
( भा. ११।१४।२१ ) इत्यादिवाक्यैः। किंतु भगवदनुग्रहेण भक्तसंगेन १५ च भक्ती सत्यामिति ज्ञापनाय भक्त एव तद्बोधाधिकारीत्यपि ज्ञापयितुं
भक्तस्य नारदस्य भगवदावेशयुक्तस्य सनत्कुमारस्य च संवाद उक्तः । तत्रात्मशब्देन पुरुषोत्तम उच्यते । भक्तिमार्गे तु निरुपधिस्नेहविषयः स एव यतः । स तु सर्वात्मभावकसमधिगम्य इति सर्वात्मभाव एव विद्या
शब्देनोच्यते । परमकाष्ठापन्नं यद्वस्तु तदेव हि वेदान्तेषु मुख्यत्वेन प्रति२० पाद्यम् । अक्षरब्रह्मादिकं तु तद्विभूतिरूपत्वेन तदुपयोगित्वेन मध्यमाधि
कारिफलत्वेन च प्रतिपाद्यते । तेन तत्र विद्याशब्दप्रयोग औपचारिकः । सर्वात्मभाव एव मुख्यः । युक्तं चैतत् । अक्षरविषयिण्या विद्यायाः सकाशात्तत उत्तमविषयिण्यास्तस्या उत्तमत्वम् ।
एवं सति पूर्वप्रपाठकस्याक्षरपकरणत्वादुत्तरस्य पुरुषो६५ त्तमप्रकरणत्वात् त्वद्धत्वसिद्धिश्चात उक्तन्यान्येन विद्यैवाग्रिमप्रपाठके
10-ख reads ज्ञायते for ज्ञाप्यते। 25-C reads तत्वसिद्धि for त्वद्धत्वसिद्धि ।