________________
२५३
१७ लिङ्गभूयस्त्वाधिकरणम् । [अ. 3 पा. 3 भू ४७ क्रियामानसवदिति । यथा पूजनप्रकरणे बाह्यतत्क्रियारूपमुच्यते । आन्तरं तु मनोव्यापाररूपमुच्यते । न ह्येतावतान्यतरस्य तद्भिन्नत्वं वक्तुं शक्यम्। प्रकरणाभेदात्तथेहापीत्यर्थः ॥ ३॥३॥४५॥
अतिदेशाच्च ॥३॥३॥४६॥ ५ नामरूपात्मकं हि जगत् । तत्पूर्वं सर्वशब्देनानूद्य तास्मन् ब्रह्माभेदो निरूपितः । अग्रे तु ऋगादिविद्या अनूद्य नामात्मकब्रह्मत्वं तत्रातिदिश्यते । नामैवैतन्नामोपास्वेति । इतोपि हेतोनिप्रकारभेद एवाये निरूप्यत इत्यर्थः ॥ १३४६॥
विद्यैव तु निर्धारणात् ॥३॥३॥४७॥ १. तुशब्दः पूर्वपक्षं व्यावर्तयति । यदुक्तं सनत्कुमारनारदसंवाद
आत्मज्ञानप्रकारविशेष एव निरूप्यत इति तन्न किंतु विद्यैव निरूप्यत इति । अत्रेदमाकूतम् । नायमात्मेति श्रुतिरितरसाधननिषेधपूर्वकं वरणस्य साधनमुक्त्वा वृतलभ्यत्वे हेतुं वदन् वरणविषयमप्याह । तस्यैष आत्मा
वृणुते तनुं स्वाम् (मुं. ३।२।३) इति । तस्य वृतस्यात्मन एष भगवाना१५ त्मात एव तत्तनूरूपः स जीवात्मा । तद्वरणस्यावश्यकत्वज्ञापनाय
स्वामिति । सर्वो हि स्वकीयां तनुमात्मीयत्वेनात्मत्वेन च वृणुते । तद्विशिष्ट एव भोगान् भुङ्क्ते । अत एव तैत्तिरीयकोपनिषत्स्वपि-ब्रह्मविदामोति परम् ( तै. २।१) इति सामान्यतो ब्रह्मविदः परब्रह्मप्राप्तिमुक्त्वाग्रिमर्चा विशेषतो वदन् । सत्यं ज्ञानमनन्तं ब्रह्म (तै. २।१ ) इति ब्रह्म२. स्वरूपमुक्त्वा- यो वेद निहितं गुहायां परमे व्योमन् । सोश्नुते सर्वान्
कामान् सह । ब्रह्मणा विपश्चिता (ते. २।१ ) इत्युक्तम् । एतद्यथा तथानन्दमयाधिकरणे प्रपञ्चितमस्माभिः ।
किंच पुरुषोत्तमलाभे हेतुभूतं तु भक्तिमार्गे यद्वरणं स्वीयत्वेनाङ्गीकाररूपं तदेव नत्वन्यादृशमपीति ज्ञापनायाग्रे वदति-नायमात्मा बलही
3-ख and B read प्रकरणभेदात् for प्रकरणाभेदात 16-ख and A om. आत्मत्वेन before च ।