________________
२५२
अ. 3 पा. ३ . ] अणुमाग्यम् । सर्वसंपत्तिरित्याशयेन-तस्य ह वा एतस्यैवं पश्यतः ( छां. ७।२६।१ ) इत्युपक्रम्य-आत्मन एवेद सर्वम् ( छां. ७।२६।१ ) इत्युक्तवान् । ततः श्लोकैस्तद्भावस्वरूपमुक्त्वैतस्य मूलकारणमाह । आहारशुद्धावित्यादिना । प्राणपोषको ह्याहारस्तस्य सदोषत्वे तु न किंचित् सिध्यति । ५ एवं सति भगवदतिरिक्तस्य स्वतो निर्दोषत्वाभावाद्भगवानेव चेत्पाणपोषको भवेत्तदा सर्वं संपद्यते । स च सर्वात्मभावे सत्येव भवति । स च तथा तद्वरणं विना न भवति । तच्चोक्तकार्यानुमेयमिति वरणलिङ्गं सर्वात्मभावस्तस्यैव भूयस्त्वात्सर्वतोधिकत्वात्तद्वरणमेव सर्वतः कालादेर्बलीय इत्यर्थः ।
यल्लिङ्गमेव सर्वतोधिकं तस्य तथात्वे किं वाच्यमिति कैमुतिकन्यायोपि .. सूचितः । ज्ञानमार्गीयज्ञानेन प्रतिबन्धशङ्कायामाह । तदपीति । उक्तमिति
शेषः । अन्तरा भूतग्रामवत् स्वात्मनः (ब. सू. ३३।३५) इति सूत्रेण । तञ्चोपपादितमस्माभिः ॥ ३।३।४४ ॥
पूर्वविकल्पः प्रकरणात्स्यात् किया
मानसवत् ॥ ३॥३॥४५॥ १५ तत्राह । नात्र वरणलिङ्गभूयस्त्वं निरूप्यते कित्वात्मज्ञानप्रकारविशेष एव । तथाहि । पूर्वप्रपाठक आत्मना सहाभेदः सर्वस्य निरूपितः श्वेतकेतूपाख्यानेन । आग्रमे च-सोहं भगवो मन्त्रविदेवास्मि नात्मवित् (छां. ७१।३) इत्यादिना नारदस्यात्मजिज्ञासैवोक्ता । एवं सत्युत्तरमपि तद्विषयकमेव भवितुमर्हत्यत आत्मप्रकरणत्वादुभयोः प्रपाठकयोः २० पूर्वस्मिन्यदभेद उक्तस्तस्यैव स्वरूपम्-आत्मन एवेद सर्वम् (छां.
७।२६।१ ) इत्यन्तेनोक्तमिति पूर्वोक्तप्रकारादन्येन प्रकारेणात्माभेद एव सर्वस्योक्तः । तदेवाह । पूर्वस्य पूर्वप्रपाठकोक्तात्माभेदज्ञानस्य विकल्पः प्रकारभेद एवाग्रेपि निरूप्यते । तत्रोपपत्तिमाह । प्रकरणादिति । एतत्तूपपादितम् । अत्र सिद्धान्तिसंमतं दृष्टान्तमाह । तद् हृदयसंवादार्थम् ।
15-A, C and D 3TENTE for JETESİ 21-ख om. एy before सर्वस्य । 24-A and C reads सिद्धान्त for सिद्धान्ति ।