________________
१७ लिङ्गभूयस्त्वाधिकरणम् । [ अ. ३ पा. ३ मू. ४४ १७ लिङ्गभूयस्त्वाधिकरणम् । लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि || ३ | ३ | ४४ ॥
ननु प्रतिबन्धककालादृष्टादिसद्भावेपि वरणकार्यं स्यादुत तन्निवृत्ताविति संशये प्रतिबन्धकाभावस्य सर्वत्र हेतुत्वात्तन्निवृत्तावेव तथेति पूर्वपक्षे सिद्धान्तमाह । लिङ्गेत्यादिना । सामोपनिषत्सु नवमे प्रपाठके सनत्कुमारनारदसंवादे प्रथमत एव मुख्या ब्रह्मविद्योपदेशार्हा न भवतीति ज्ञात्वा सनत्कुमारो नारदाधिकारं च ज्ञातुं - यद्वेत्थ तेन मोपसीं ( छां. ७११।२ ) इत्युक्तो नारदः स्वयं विदितमृग्वेदादिसर्पदेवजनविद्यान्तमुक्त्वा - सोहं भगवो मन्त्रविदेवास्मि (छां ७|१| ३ ) इति स्वाधि१॰ कारमुक्त्वाह–नात्मविच्छ्रत" ह्येव मे भगवदृशेभ्यस्तरति शोकमात्मविदिति सोहं भगवः शोचामि तं मां भगवाञ्छोकस्य परं पारं तारयतु ( छां. ७|१|३ ) इति नारदेनोक्तः सनत्कुमारः पूर्वस्मात् पूर्वस्मात् भूयो वदेति पृष्टो भूयः पदमधिकार्थकं नामवाङ्मनः संकल्पचित्तध्यानविज्ञानबलान्नापस्तेज आकाशस्मराशाप्राणान् ब्रह्मत्वेनोपासनाविषयत्वेनोक्त्वा १५ प्राणोपासकस्यातिवादित्वं सत्यवादित्वेनोक्त्वा विजिज्ञासितव्यत्वेन सत्यविज्ञानमतिश्रद्धानिष्ठाकृति सुखानि पूर्वपूर्वकारणत्वेनोत्तरोत्तराण्युक्त्वा सुखस्वरूपजिज्ञासायामाह । यो वै भूमा तत्सुखम् ( छां. ७/२३१ ) इति भूम्नः स्वरूपजिज्ञासायामाह । यत्र नान्यत् पश्यति नान्यच्छ्रुणोति नान्यद्विजानाति स भूमा ( छां. ७।२४।१ ) इति । एतेन सर्वा - २० त्मभावस्वरूपमेवोक्तं भवति । तत्र विरहभावेतिविगाढभावेन सर्वत्र तदेव स्फुरतीति स एवाधस्तादित्यादिनोक्त्वा कदाचित् स्वस्मिन्नेव भगवत्त्वस्फूर्तिरपि भवतीत्यथाहंकारादेश इत्यादिना तामुक्त्वैतेषां व्यभिचारिभावत्वेनानियतत्वं ज्ञापयितुं पुनः सर्वत्र भगवत्स्फूर्तिमाहाथात आत्मादेश इत्यादिना । ततः संयोगभावे सति पूर्वभावेन सर्वोपमर्द्दिना स्वप्राणादि२५ सर्वतिरोधानेनाग्रिमलीलानुपयोगित्वं न शङ्कनीयम् । यतो भगवत एव
13- A and C read आधिक्यार्थकं for अधिकार्थकं ।
२५१