________________
२५०
अणुभाष्यम् ।
अथेदं विचार्यते । सर्वात्मभावो विहितकर्मज्ञानभक्तिसाध्यो न वेति । तत्र पुराणे - तस्मात्त्वमुद्धवोत्सृज्य ( भा. ११।१२।१४ ) इत्युपक्रम्य - मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन यास्यसे कुतोभयम् (भा. ११।१२।१५ ) इति वाक्ये मुक्त्यात्मकाकुतोभय५ साधनरूपशरणगमने प्रकारत्वेन सर्वात्मभावस्य कथनेन स्वप्रयत्नसाध्यत्वं गम्यते । अतः साधनसाध्य इति पूर्वः पक्षः । तत्र सिद्धान्तं वक्तुं तदुपदेशस्वरूपमाह । प्रदानवदिति । यद्ययं साधनोपदेशः स्यात् स्यात्तदा साधनत्वेन सर्वात्मभावेन शरणप्राप्तेः स्वकृतिसाध्यत्वं न त्वेवं किंतु तदुक्तं भगवदुक्तम् । प्रदानवत् । प्रकृष्टं दानं वरदानमिति यावत् । तद्वदेवेत्यर्थः । १० वरेण हि स्वकृत्यसाध्यमपि सिध्यतीति । तथा शत्रुसंहारभयादिनापि शरणप्राप्तिर्भवति तत्र न तस्याः पुरुषार्थत्वं किंतु तन्निवृत्तेरेव । प्रकृतेपि सर्वात्मभावे स्वरूपमाप्तिविलम्बासहिष्णुत्वेनात्यार्त्यां स्वरूपातिरिक्तास्फूर्त्या तद्भावस्वाभाव्येन गुणगानादिसाधनेषु कृतेष्वप्यप्राप्तौ स्वाशक्यत्वं ज्ञात्वा प्रभुमेव शरणं गच्छत्येतच्च न स्वकृतिसाध्यमिति सुष्ठुक्तं प्रदानवदिति । १५ भक्तस्येप्सितोर्थो हि वरो भवति । सर्वात्मभावस्यानुभवैकवेद्यत्वेन पूर्वमज्ञानेनेप्सितत्वासंभवेपि स्वत एव कृपया दानमितिवदित्युक्तम् । अथवा सर्वात्मभावेन मां ग्राहीति संबन्धः । यद्वा प्रदानवदित्यस्य पूर्ववदेव व्याकृतिः। तत्र साधनासाध्यत्वे प्रमाणमाह । तदुक्तमिति । नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यः १० ( मुं. ३ २/३ ) इति श्रुत्या वरणातिरिक्तसाधना प्राप्यत्वमुच्यत इति तत्तथैवेत्यर्थः ।
अ. ३ पा ३ सू. ४३
~3]
भगवदुक्ताकुतोभयपदस्य न मुक्तिरर्थः । किंतु यतो वाच इत्यादिनानन्दस्य स्वरूपमुक्त्वा - आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्वनं ( तै २४ ) इति श्रुत्युक्तं यत्पूर्वोक्तं रसात्मकपुरुषोत्तमभजनानन्दानु२५ भवोत्तरकालीनमकुतोभयं तदर्थः || ३ | ३ | ४३ ॥ १६ ॥
-ख reads साध्यत्वेन for साधनत्वेन ।