________________
२४९
१६ प्रदानवदित्यधिकरणम् ।
[ अ. पा. ३ सू. ४३
एतन्निर्धारश्च भगवदधीनोतो भक्तेष्वपि तन्निर्धारणानियमोतः कर्म कर्तव्यमेवातन्निर्धारणे त्वाधुनिकानाम् । एवं सतीच्छाज्ञानवता तत्संदेहवता च कर्म कर्तव्यमिति सिद्धम् । तत्रोभयोः फलं वदन्नादावाद्यस्याह । तद्दृष्टेः । तस्या भगवदिच्छाया दृष्टिर्ज्ञानं यस्य स तथा । तस्य जीवकृतकर्मफलात् ५ पृथग् भिन्नमीश्वरकृतकर्मणो यत्फलं वेदमर्यादारक्षा लोकसंग्रहश्व तत्फलमित्यर्थः । हिशब्देन - सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् (भ.गी. ३।२५ ) इति भगवद्वाक्यरूपोपपत्तिः सूचिता । द्वितीयस्य मध्यमाधिकारात् कामसंगादिजनितचित्तमालिन्येन भगवत्सांनिध्ये प्रतिबन्धः स्यात् । तन्निवृत्तिस्तत्कृ१. तकर्मणः फलमित्यर्थः । अथवा पूर्वसूत्राभ्यां भगवद्धर्मकृतेरावश्यकत्वमुक्तम् । सर्वात्मभाववतो-न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ( भा. ११/२०१३१ ) इति भगवद्वचनाद्विधेयाभावादसंभवाच्च कर्मज्ञानयोर्विहितभक्तेश्व करणं न संभवतीति तस्य किं फलमित्याकाङ्गापूरणाय तदनुवदति । तस्मिन्धर्मिण्येव न तु धर्मेष्वपि दृष्टिर्यस्य स तथा । दृष्टिप१५ देन ज्ञानमात्रमुच्यते । तेनान्यविषयकदर्शनश्रवणादिज्ञानाभाव उक्तो भवति । एतादृशस्य प्रभुसंगममात्रमपेक्षितम् । तत्र भगवदुक्तस्व संगमावधिकस्य भक्तस्य संगमसमयनिर्धारो भवति । अतादृशस्य तस्य स नेति तन्निर्धारणानियमः । एतेन फलप्राप्तेः प्रागवस्थोक्ता भवति । फलस्वरूप - माह । पृथक्फलमिति । अस्यानिर्वचनीयत्वादनुभवैकवेद्यत्वान्मोक्षान्तं २० यत्फलं शास्त्र उक्तं तस्माद्भिन्नमित्युक्तम् । अन्यत्र हि धर्माणां साधनत्वं यत्र फलमेव साधनं तत्फलस्यानिर्वाच्यता युक्तैवेति हिशब्देनाह । ज्ञानमोक्षादिना तद्भावाप्रतिबन्धश्व फलमित्यर्थः । प्रासंगिकमेतत्सूत्रम् ॥ ३।३।४२ ॥ १५॥
२५
१६ प्रदानवदित्यधिकरणम् । प्रदानवदेव तदुक्तम् || ३|३|४३ ॥
25-ख reads हि for तदुक्तम् । ३२ [ अणुभाष्य ]