________________
अ. 3 ५.. 3 सू. ४०] अणुभाष्यम् । यदुक्तं तदपि प्रत्युक्तं वेदितव्यम् । करणेपि वैयर्थ्यात्तदपरिहारात् । एवं सति यदकरणे प्रत्यवायकथनं तेन तस्मादवकाशं प्राप्य गौणकालेप्यकरणे • तथेति तस्याशय इति ज्ञायते ॥ ३॥३।४० ॥
नन्वेवंतात्पर्यकत्वे श्रुतेरुपनयनादिवत्कर्मोपयोगित्वं भक्तितपक्षा५ नयोः स्यादिति कर्मण एव प्राधान्यं न तु भक्तेः सिध्यतीत्याशङ्कय भक्तितज्जज्ञानावश्यकत्वप्रबोधकश्रुतितात्पर्यमाह।
उपस्थितेतस्तद्वचनात् ॥ ३॥३४१॥ तयोर्युगपत्करणेनुपस्थितेपि यदि पूर्वं भगवद्धर्मकरणमुच्येत तदा त्वदुक्तं स्यान्न त्वेवं किंतूभयोयुगपत्करण उपस्थिते बलाबलविचारे क्रिय१० माणेत आदराद्धेतोस्तद्वचनाद्भगवद्धर्माणां बलवत्त्वेनालोपवचनान्न कर्मा
त्वमेतेषां सिध्यतीत्यर्थः ।। ३।३।४१॥१४॥
१५ तन्निर्धारणाधिकरणम् । तनिर्धारणानियमस्तदृष्टेः पृथग्घ्यप्रतिबन्धः .
फलम् ॥ ३॥३॥४२॥ १५ अथेदं विचार्यते । पुरुषोत्तमविदः कर्म कर्तव्यं न वेति । तत्र मार्गत्रयफलात्मके तस्मिन् संपन्ने पुनस्तस्य स्वतोपुरुषार्थस्य करणमप्रयोजकमिति न कर्तव्यमेवेति पूर्वपक्षः । तत्र सिद्धान्तमाह । तन्निर्धारणेत्यादिना । अत्रेदमाकूतम् । भक्तिमार्गे हि मर्यादापुष्टिभेदेनास्ति द्वैवि
ध्यम् । तत्र मर्यादायां पुष्टौ चैतादृशस्य न कर्मकरणं संभवति । २० अत एव तैत्तिरीयकोपनिषत्सु पठ्यते । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन (तै. २।४ ) इति । एत ह वाव न तपति किमह साधु नाकरवम् । किमहं पापमकरवम् इति ( तै. २९) इति । श्रूयते चोभयविधानामपि कर्मकरणमम्बरीषोद्धवपाण्डवादीनाम् ।
एवं सत्युभयविधानां मध्ये मम कर्मकरणे प्रभोरिच्छास्तीति यो निर्धार२५ यति स करोति य एतद्विपरीतं स न करोति । यथा शुकजडादिः ।