________________
२४७
१४ आदरादित्यधिकरणम् । [अ. 3 पा. 3 सू. १. १४ आदरादित्यधिकरणम् ।
आदरादलोपः ॥ ३॥३॥४०॥ . ननु नित्यानां वर्णाश्रमधर्माणां भगवद्धर्माणां चैककाले प्राप्तौ युगपदुभयोः करणासंभवादन्यतरबाधे प्राप्ते कस्य स्यान्न कस्येति स्यात्सं५ शयः । तत्र कर्मणां स्वस्वकाले विहितानामकरणे प्रत्यवायश्रवणादितरत्रातथाश्रवणाद् अन्यदापि तत्कृतिसंभवात् सावकाशत्वेन तेषामेव बाधो युक्तो न तु निरवकाशानामिति पूर्वः पक्षः । तत्र सिद्धान्तमाह । आदरादिति । ब्रह्मयज्ञप्रकरणे तैत्तिरीये पठ्यते । ॐ इति प्रतिपद्यत एतद्वै
यजुस्त्रयीं विद्यां प्रत्येषा वागेतत्परममक्षरं तदेतदृचाभ्युक्तमृचो अक्षरे परमे १० व्योमन् यस्मिन् देवा अधिविश्वे निषेदुर्यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते (श्वे. ४।८) इति । अत्र ऋक् संबन्धित्वेन वर्णात्मके । वस्तुतस्तु परमव्योमात्मके अक्षरे ब्रह्मण्योङ्कारे वर्तमानं तल्लोकवेदप्रसिद्धं परं ब्रह्म यो न वेद किमृचा करिष्यतीत्यनेन तदज्ञाने
वेदाध्ययनस्य निष्फलत्वमुच्यते। एवं सति तदुक्तकर्मणोपि तथात्वमा१५ याति । एतेन भक्त्या मामभिजानाति ( भ. गी. १८।५५) इति वाक्यात्
परब्रह्मस्वरूपज्ञग्नं भक्त्यैवेति भक्ताः सन्तः पुरुषोत्तमविदो ये तेषामेव वेदाध्ययनादिकं फलप्रदं नान्येषामित्युक्तं भवति । अत एव श्रीभागवतेप्युक्तम्-ऋषयोपि देव युष्मत्प्रसंगविमुखा इह संसरान्त (भा. ३।९।१०)
इति वा अन्वये निदर्शनम् । य इत् ईश्वरत्वेन तत्पूर्वोक्तं परं ब्रह्म २. विदुस्त इमे भक्ताः सर्वापेक्षया सम्यक् प्रकारेण भगवन्निकटे श्रीगोकुल
वैकुण्ठादिष्वासत इति। तेनान्येषां सम्यगसत्त्वमक्षिप्तं भवति । पुरःस्थितार्थवाचीदंशब्दप्रयोगेण चान्येषामसत्तुल्यत्वं श्रुतेरभिमतमिति ज्ञायते। ऋक्शाखायामपि-तमु स्तोतारः पूर्यं यथाविद ऋतस्य गर्भ जनुषा पिप
नि । आस्य जानन्तो नाम चिद्विविक्तन महस्ते विष्णो सुमतिं भजामहे २५ (ऋ. २।२।२६) इत्याग्भिरन्येभ्यो धर्मेभ्यः सकाशाद् भगवद्धर्मेष्वादरः
श्रूयते । इति तेषामलोप एवेत्यर्थः । एतेनाकरणे प्रत्यवायश्रवणादित्यादि 12-C roads परमे for परम ।