________________
अणुभाष्यम् ।
१३ सैव हीत्यधिकरणम् । सैव हि सत्यादयः || ३|३|३८ ॥
अथेदं विचार्यते । प्राप्तभक्तेः पुरुषस्य सत्यशमदमादयो विधीयन्ते न वेति । फलोपकार्यन्तरङ्गसाधनत्वाच्छुद्धौ सत्यामेव चित्ते भगवत्प्रा५ दुर्भाव संभवाद्विधीयन्त इति पूर्वः पक्षः । तादृशस्य ते न विधीयन्त इति सिद्धान्तः । तत्र हेतुमाह । हि यस्माद्धेतोः सेव भक्तिरेव सत्यादिसर्वसाधनरूपा । तस्यां सत्यां सत्यादयो ये ज्ञानमार्गे विहितत्वात् कष्टेन क्रियन्ते मुमुक्षुभिस्ते भक्तहृदि भगवत्प्रादुर्भावात् स्वत एव भवन्तीति न विधिमपेक्षन्त इत्यर्थः ॥ ३|३|३८ ॥
अ. ३ पा. ३ . ३८
२४६
१०
कामादीतरत्र तत्र चायतनादिभ्यः || ३।३।३९ ॥
पूर्वसूत्रे शास्त्रोक्ताखिलसाधनरूपत्वं भक्तेरुक्तम् । तद्दाढर्चार्थमधुना मुक्तिप्रतिबन्धकत्वेन हेयत्वेनेोक्तानां कामादीनामपि भगवत्संबन्धान्मुक्तिसाधकत्वमुच्यते । भक्तिस्तु विहिताविहिता चेति द्विविधा | माहात्म्यज्ञानश्रुतेश्वरत्वेन प्रभौ निरुपधिस्नेहात्मिका विहिता । अन्यतोप्राप्तत्वात्कामायु१५ पाधिजा सा त्वविहिता एवमुभयविधाया अपि तस्या मुक्तिसाधकत्वमि - त्याह । इतरत्र विहितभक्तेरिति शेषः । कामाद्युपाधिजस्नेहरूपायां कामाद्येव मुक्तिसाधनमित्यर्थः । भगवति चित्तप्रवेशहेतुत्वात् । आदिपदात् पुत्रत्वसंबन्धित्वादयः। स्नेहत्वाभावेप्यविहितत्वभगवद्विषयकत्वयोरविशेषाद् द्वेषादिरपि संगृह्यते । तेन भगवत्संबन्धमात्रस्य मोक्षसाधकत्वमुक्तं भवति १० तत्र विहितभक्तावित्यर्थः । शास्त्रे सर्वथा हेयत्वेनोक्ता गृहाः । सर्वनिवेदनपूर्वकं गृहेषु भगवत्सेवां कुर्वतां तदुपयोगित्वेन तेभ्य एव मुक्तिर्भवती - त्यर्थः । एतादृशानां गृहा भगवद्गृहा एवेति ज्ञापनायायतनपदम् । तेषु तथा प्रयोगप्राचुर्यात् | आदिपदेन स्त्रीपुत्रपश्वादयः संगृह्यन्ते । एतेन ज्ञानादिमार्गादुत्कर्ष उक्तो भवति । बाधकानामपि साधकत्वात् । माहात्म्यज्ञा२५ नपूर्वकस्नेहे सत्येव भर्तृत्वेन ज्ञाने कामोपि संभवतीति ज्ञापनाय चकारः || ३|३|३९ ॥ १३ ॥