________________
२४५ १२ अन्तरा भूतप्रामवदित्यधिकरणम्। [अ. पा. ३ सू. ३७ तथात्र सर्वेषामात्मनो ह्यात्मा । य आत्मनि तिष्ठन् इत्यादिश्रुतिसिद्धो जीवात्मनोप्यात्मा पुरुषोत्तम इति बोध्यते । तेन पुरुषोत्तम निरुपधिः स्नेहस्तत्संबन्धित्वेनात्मनि स सिध्यति । यद्यप्येवं भावः पूर्वमप्यासीदेव । तथापि सहजस्य शास्त्रार्थत्वेन ज्ञानेतिप्रमोदो दाढय च ५ भवतीति तथा । नैतावता जीवभेद आयाति । अये जीवनसंपत्तिरेवोपदे
शकायं न तु तेन पूर्वभावोपमर्दः संभवतीति सारम् । तेन ज्ञाने सर्वाधिक्यं मन्वानाय भक्तिबलप्रदर्शनं च सिध्यति ॥ ३॥३॥३६ ॥
व्यतिहारो विशिंषन्ति हीतरवत् ॥ २३॥३७॥
ननु-तद्योहं सोसौ योसौ सोहम् (ऐ. आ. २।१२।२) इत्यैतरे१० यके तैत्तिरीयके च-अहमस्मि ब्रह्माहमास्मि ( म. ना. ५.१० ) इति
पठ्यते । अत्र मध्यस्थं ब्रह्मपदमुभयत्र संबध्यते । तेनावृत्त्या व्यतिहारोतो ब्रह्माभेदः सिध्यति । तथा लीलामध्यपातिभक्तानामपि-कृष्णोहमहं कृष्णः इति भाव उल्लेखश्च श्रूयते । अतस्तदभेदज्ञानं भक्तिफलमिति पम्फुल्यमानं प्रतिवादिनं तत्स्वरूपं बोधयति । रसात्मक१५ त्वाद्भक्तेः संयोगविप्रयोगात्मकत्वाद् द्वितीयभावोद्रेके यथेतरेश्रुमलापादयो व्यभिचारिभावास्तथातिविगाढभावेन तदभेदस्फूतिरप्येकः स च न सार्वदिकस्तदा स्वात्मानं तत्त्वेन विशिंषन्ति तं च स्वात्मत्वेन । सोत्र व्यतिहारपदार्थ इत्यर्थः । अपरं च । उद्देश्यविधेयभावस्फूतौ न ह्यद्वैत
ज्ञानमस्ति किंतु भावनामात्रं भक्तानां तु विरहभावे तदात्मकत्वमेवाखण्डं २० स्फुरति येन तल्लीलां स्वतः कुर्वन्त्येतद्यथा तथा श्रीभागवतदशमस्कन्धविवृतौ पपञ्चितमस्माभिः । एवं सति मुख्यं यदद्वैतज्ञानं तद्भक्तिभावैकदेशव्यभिचारिभावेण्वेकतरदिति सर्षपस्वर्णाचलयोरिव ज्ञानभक्त्योस्तारतम्यं कथं वर्णनीयमिति भावः ॥ ३॥३॥३७ ॥ १२ ॥
11-ख.reads व्यतिहारतो for व्यतिहारोतो। 13-Creads उन्मेषश्च for उल्लेखश्च । 20-Creads तत्तल्लीलां for तल्लीलां।