________________
अ. . पा. सू. ३५]
अणुभाष्यम् ।
२४४
भगवता भक्तिमार्गे स्वीयत्वेनाङ्गीकृतो य आत्मा जीवस्तस्य यदात्मत्वेन ज्ञानं तद्भजनानन्दानुभवेन्तरा व्यवधानरूपमिति भगवता तादृशे जीवे तन्न संपाद्यत इत्यर्थः । तत्संपादनस्य सर्वथैवासंभावितत्वं हीनत्वं च ज्ञापयितुं दृष्टान्तमाह । भूतग्रामवदिति । उक्तभक्तस्य विग्रहोप्यलौकिक ५ इति तत्र लौकिको भूतग्रामो न संभवति । हीनत्वात्तथेत्यर्थः । अथवा लौकिको भूतग्रामः स्त्रीपुत्रपश्वादिब्रह्मानन्दानुभवे बाधकस्तथा भजनानन्दानुभवे स्वात्मत्वेन भगवज्ञानमित्यर्थः ॥ ३॥३॥३५॥ अन्यथाभेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ ३३॥३६॥
ननु भक्तेष्वप्युद्धवादिषु ज्ञानोपदेशः श्रूयते । स चात्मब्रह्माभेद" ज्ञानफलक इत्यात्मत्वेन ज्ञानाभावे तदभेदोपदेशानुपपत्तिः स्यादिति तन्मन्तव्यमेव । एवं सति भक्तिमागाज्ज्ञानमार्गस्योत्कर्षश्च सिध्यतीत्याशङ्कय परिहरति । उपदेशान्तरवदिति । न ह्यभेदज्ञानायोपदेशः किंतु यथानिमस्वर्गापवर्गाख्यपारलौकिकानन्दफलकालौकिके कर्मण्यधिकाररूपसंस्का
रार्थं गायत्र्युपदेशः क्रियते तत्संस्कारसंस्कृतं तच्छरीरादिकमपि भूतादि१५ भिरपि नोपहतं भवति । यथा वा योगोपदेशसंस्कृतस्य वपुरग्यादिभिर्नोपहन्यते तथा प्रकृते भक्तिभावस्य रसात्मकत्वेन संयोगविप्रयोगभावात्मकत्वाद् द्वितीयस्य प्रलयानलादतिकरालत्वेन कदाचित्तद्भावोदये तेन भक्तवपुरादेस्तिरोधानेग्रिमभजनानन्दानुभवप्रतिबन्धः स्यादिति तानिवृत्त्यर्थं
ज्ञानोपदेशसंस्कारसंस्कृतं तद्वपुरादिकं भगवता क्रियते । न त्वात्माभेद२० ज्ञानं भगवतोभिप्रेतमित्यर्थः । अन्यथोपदेशानन्तरं बदरीं गच्छन् विदुरं
प्रति-इहागतोहं विरहातुरात्मा ( भा. ३।४।२० ) इति न वदेत् । एवमेवान्येष्वपि भक्तेषु ज्ञेयम् । अत्रोपदेशान्तरपदं प्रस्तुतोपदेशभिन्नमुपदेशान्तरमाहेति प्रस्तुतस्य तस्यान्यस्याभावादभेदपदेनाभेदो
पदेश एवोच्यते । एतेन भगवान् स्वीयानां भक्तिभावप्रतिबन्वनि२५ रासायैव सर्वं करोतीति ज्ञापितं भवति । अथवोपदेशान्तरवदित्यस्यायमर्थः । शरीराद्यव्यासवतस्तद्भिन्न आत्मा तत्त्वं न तु शरीरादिरित्युपदेशो ज्ञानमार्गे यथा क्रियते तेन शरीरादावात्मबुद्धया यः स्नेहादिः सोपगच्छति ।