________________
२४३ १२ अन्तरा भूतग्रामवदित्यधिकरणम्। [ अ. 3 पा.३ सु ३५ भगवद्विभूतिरूपत्वं तद्भावस्तस्य पुरुषोत्तमस्य भावः सत्ता । उक्तरीत्या तत्र स्थितिरिति यावत् । ताभ्यां हेतुभ्यां तथेत्यप्यर्थो ज्ञेयः ॥ १३३३॥
इयदामननातू ॥२३४॥ ननु संसारनिवृत्त्यानन्दाविर्भावयोरविशेषादक्षरे ब्रह्मणि लये पुरु५षोत्तमे प्रवेशान्न्यूनतोक्तौ को हेतुरित्याकाङ्क्षायामाह । इयदिति परिमा
णवचनम् । तस्य श्रुतौ कथनादित्यर्थः । अत्रेदं ज्ञेयम् । तैत्तिरीयोपनिषत्सु-सैषानन्दस्य मीमा सा भवति (ते. २।८ ) इत्युपक्रम्य मानुषमानन्दमेकं गणयित्वा तस्मादुत्तरोत्तरं शतगुणमानन्दं गन्धर्वानारभ्य प्रजापतिपर्यन्तस्योक्त्वोच्यते । ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण १० आनन्दः ( तै. २।८ ) इति । एवं सतीयत एतावदक्षरानन्दस्य सावधि
कत्वेन श्रुतौ कथनादानन्दमयत्वेन निरवध्यानन्दात्मकत्वस्य पुरुषोत्तमे कथनात्तथोक्तिरिति ॥ ३।।३४ ॥ ११॥
१२ अन्तरा:भूतग्रामवदित्यधिकरणम् ।
अन्तरा भूतग्रामवत्स्वात्मनः॥३॥३॥३५॥ १५ अथ ज्ञानमार्गे यथा स्वात्मत्वेन ब्रह्मणो ज्ञानं तथा भक्तिमार्गेपि।
भक्त्या पुरुषोत्तमज्ञाने स्वात्मत्वेन पुरुषोत्तमज्ञानं भवति न वेति विचार्यते । सर्वान्तरत्वेन श्रुतौ कथनात्तद्भवतीति पूर्वः पक्षः । तथात्वेपि-सर्वस्य वशी सर्वस्येशानः (बृ. ४।४।२२) इत्यादिश्रुतिभिरेवमेव ज्ञानम् । न तु तथेति सिद्धान्तः । अत्र तथा ज्ञानाभावस्यावश्यकत्वार्थं विपरीते बाधकमाह । २० पूर्वस्मिन्सूत्रे ब्रह्मानन्दागजनानन्दस्याधिक्यं निरूपितम् । स तु भगवद्दत्तस्तद्व्यवधायकोर्थश्च प्रभुणा न संपाद्यते । स्वात्मत्वेन ज्ञानं च भजनानन्दान्तरायरूपम् । यद्येतत्संपादयेत्तं न दद्यादग्रेन्यथाभावादतः स्वात्मत्वेन ज्ञानं भक्तिमार्गीयस्य न संभवतीत्याशयेनाह । अन्तरा स्वात्मन इति ।
10-A and Cread सावधित्वेन for सावधिकत्वेन ।