________________
अ.
पा. सू. 331
अणुभाष्यम् ।
२४२
(भ. गी. ८।२१ ) इत्यन्तेनाक्षरस्वरूपमुक्तम् । अत्र पूर्वं क्षरस्वरूपमुक्तमिति-परस्तस्मात्तु ( भ. गी. ८।२०) इत्यत्र क्षरादेव परत्वमुच्यते । तच्छन्दस्य पूर्वपरामर्शित्वात्तस्यैव पूर्वमुक्तत्वात् । अत एवाक्षरव्यावर्तकस्तुशब्द उक्तः । एतेन नित्यत्वेन क्षरणाभावादक्षरशब्देन जीव एवो५ च्यते न तु पुरुषोत्तमाधिष्ठानभूतो जीवातीत इति निरस्तम् । यं प्राप्य
न निवर्तन्ते ( म. गी. ८।२१) इति वाक्याज्जीवे तथात्वासंभवात् । नित्यमुक्तत्वापत्त्या शास्त्रवैफल्यापत्तेश्च । इत एव ज्ञानमार्गिणां तत्प्राप्तिरेव मुक्तिरिति ज्ञेयम् । ततोनिवृत्तेः । पुरुषः स परः पार्थ ( भ. गी.
८।२२) इत्यनेनाक्षरात्परस्य स्वस्य भक्त्येकलभ्यत्वमुक्तम् । तेन ज्ञान१०मार्गीयाणां न पुरुषोत्तमप्राप्तिरिति सिद्धम् । यस्यान्तःस्थानीत्यनेन परस्य लक्षणमुक्तम् । तच्च मृत्सादिप्रसंगे श्रीगोकुलेश्वरे स्पष्टमुच्यते । तेनाक्षरोपासकानां न पुरुषोत्तमोपासकत्वम् । तद्विषयकश्रवणादेरभावादिति भावः । अव्यक्तोक्षर इत्युक्तस्तमाहुः परमां गतिम् ( भ. गी,
वा२१) इति वाक्यात्-स याति. परमां गतिम् ( भ. गी. ८।१३) १५ इत्यत्राक्षरमेव यातीत्यर्थो ज्ञेयः । किंच । तैत्तिरीयोपनिषत्सु पठ्यते ।
यस्मिन्निदं सं च विचैति सर्वं यस्मिन्देवा अधिविश्वे निषेदुः । तदेव भूतं तदु भव्यमा इदं तदक्षरे परमे व्योमन् । येनावृतं खं च दिवं महीं च येनादित्यस्तपति तेजसा भ्राजसा च । यमन्तः समुद्रे कवयो वयन्ति
यदक्षरे परमे प्रजाः ( तै. सं. १०।१।१ ) इति । अत्राक्षरात्मकत्वेन २० क्षरात्मकादाकाशात् परमे व्योनि भक्तानां हृदयाकाश इति यावत् । तत्र
प्रकाशमानमित्यर्थात् । अत एव-ब्रह्मविदाप्नोति परम् (ते. २१) इत्युपक्रम्य-सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् (ते. २।१) इत्येतदुपनिषत्स्वेव पठ्यते । यदक्षरे परमे प्रजा इति पदमवयन्ति इत्यनेन संबध्यते । अत्र प्रजापदाव्यापिवैकुण्ठात्मको लोको२५क्षरपदेनोच्यत इत्यवगम्यते । अत एव-न यत्र माया ( भा. २।९।१०) इत्यादिना श्रीभागवते तत्स्वरूपमुच्यते । एतेनाक्षरस्य पुरुषोत्तमाधिष्ठानत्वं निश्चीयते। इतोप्यक्षरातीतः पुरुषोत्तम इत्यवगम्यते । एवं सति सामान्य