________________
२४१ ११ अक्षरधियामित्यधिकरणम् । [अ. 3 पा. ३ सू.33 मुक्तिसाधनेषु योवरोधः प्रवेशनं गणनेति यावत् स सामान्यतद्भावाभ्यां हेतुभ्यां पुरुषोत्तमसंबन्धिसंबन्धे मुक्तिरिति सामान्यम् । मर्यादामार्गेङ्गीकृतानां-ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ( भ. गी. १८।१४ ) इति वाक्याद् ब्रह्मभावान५न्तरमेव भगवद्भावसंभवात्तेन पुरुषोत्तमे प्रवेशात्तत्र परम्परोपयोगो ब्रह्मभावस्येत्युभाभ्यां हेतुभ्यां तथेत्यर्थः । वस्तुतस्तु पुरुषोत्तमभक्तिरेव मुक्तिरिति भावः । नन्वक्षरस्याविशिष्टत्वेन तदुपासकानामपि तथात्वात् केषांचित्तत्रैव लयः । केषां चिद्भक्तिलाभ इति कथमुपपद्यत इत्याशङ्कय तत्र
हेतुं दृष्टान्तेनाह । औपसदवदिति । उपसदाख्यकर्माण तानूनप्त्रस्पर्शा१० ख्यमौपसदं कर्मास्ति । तत्रातिथ्यायां धौवात् स्रुचि चमसे वा यदाज्यं
चतुरवत्तं वा समवद्यति तत्तानूनप्त्रमित्युच्यते । अनाधृष्टमसि (तै. सं.१।२।१० ) इति मन्त्रेण षोडशाप्यत्विजो यजमानेन सह तानूनप्त्रं समवमृशन्ति-अनु मे दीक्षाम् (तै. सं. १।२।१० ) इति मन्त्रेण यज
मानस्तत्समवमृशन्-यमृत्विजं कामयेतायं यज्ञं यशसमृच्छेदिति तं प्रथम१५ मवमर्शयेत् ( आ. सू. ११।१।४ ) इति श्रूयते श्रुतौ कल्पे च । अत्र
सर्वेषामृत्विजां तानूनपत्राविशेषेपि यस्मिन् स्नेहातिशयेन तथेच्छा तत्रैव तथा कृतिर्नेतरेषु । न हि तत्राविशिष्टेषु कथमेवं कृतिरिति पर्यनुयोगः संभवत्येवमिहापीत्यर्थः । ननु श्रवणादेर्यथा पुरुषोत्तमसंबन्धित्वेन तत्पा.
पिहेतुत्वमेवमक्षरस्याप्यस्त्वित्याशङ्का तु निखिलासुरजीवतमःपुञ्जनिरा२० सकेन यदुवंशोदयाचलचूडामणिनैव निरस्तेति न स्वतो वक्तुमुचितेत्या
शयेनाह । तदुक्तमिति । भगवद्गीतास्विति शेषः । तत्र-यदक्षरं वेदविदो वदन्ति (भ.गी.८।११) इत्युपक्रम्य-स याति परमां गतिम् (भ. गी.८।१३) इत्यन्तेनाक्षरप्राप्त्युपायमुक्त्वा-अनन्यचेताः सततम् । (भ. गी. ८।१४) इत्यादिना स्वप्राप्त्युपायं वैलक्षण्यं चोक्त्वा भक्त्येकलभ्यत्वं स्वस्य वक्तुं २५ पूर्व क्षराक्षरयोः स्वरूपमाह। सहस्रयुगपर्यन्तम् (भ. गी.८।१७) इत्युपक्रम्य प्रभवत्यहरागमे (भ. गी. ८।१८) इत्यन्तेन क्षरस्वरूपमुक्त्वा -परस्तस्मात्तु भावोन्यः ( भ. गी. ८१२० ) इत्युपक्रम्य-तद्धाम परमं मम
39 [ अणुभाज्य ]