________________
37. 31, 3. 32]
अणुभाष्यम् ।
भपि भगवति कृतान्तःकरणानामेव परस्य भगवतः परपदे व्यापिवैकुण्ठे प्रवेश उच्यते न त्वाधिकारिकगुणैः || ३|३|३२|| १०॥
१०
११ अक्षरधियामित्यधिकरणम् । अक्षरधियां त्ववरोधः सामान्यतस्तद्भावाभावाभ्यामौपासन- ' वत्तदुक्तम् || ३।३।३३ ॥
ननूक्ताथर्वणोपनिषद्वाक्यैर्भगवद्धर्माणां मुक्तिसाधनत्वमुच्यते । श्रुत्यन्तरेषु - तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेयनाय ( श्वे. ३।८) ज्ञानादेव तु कैवल्यम् । तरति शोकमात्मवित् ( छां. ७१/३) ब्रह्मविद्ब्रह्मैव भवति । इत्यादिषु ज्ञानस्यैव मुक्तिसाधनत्वमुच्यते । श्रुतित्वाविशेषादुभयोस्तथात्वे कारणवैजात्ये कार्यवैजात्यस्यावश्यकत्वान्मुक्तौ च तदसंभवात् भक्त्या मामभिजानाति (भ. गी. १८/५५ ) इति वाक्याद्भक्तौ ज्ञानस्यापि संभवाज्ज्ञानेनैव मुक्तिरिति पूर्वपक्षे ज्ञानसाधनत्वनिरूपकश्रुतितात्पर्यं निरूपयन् पुरुषोत्तमप्राप्तेरेव मुक्तिपदवाच्यत्वात्तद्भजनस्यैव तत्प्रापकत्वमिति हृदि कृत्वाह । १५ अक्षरधियामित्यादि । तुशब्दः पूर्वपक्षनिरासे । वाजसनेयके श्रूयते । एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्य स्थूलमनण (बृ. ३२८/८) इत्यादि । तथाथर्वणे च । अथ परा यया तदक्षरमधिगम्यते (मुं. १।१।५ ) इति तेन ज्ञानमार्गेक्षरविषयकाण्येव ज्ञानानि निरूप्यन्ते पुरुषोत्तमविषयकाणि नेति निश्चीयते । ब्रह्मविदाप्नोति परम् (तै २१ ) इति श्रुतावक्षरब्रह्म२० विदोक्षरात्परस्य प्राप्तिरुच्यते । अक्षरादपि चोत्तमः (भ.गी. १५/१८ ) इति भगवद्वाक्याच्चाक्षरातीतः पुरुषोत्तमः । भक्त्या मामभिजानाति (भ.गी. १८/५५ ) इति वाक्ये मामिति पदात्पुरुषोत्तमविषयकं ज्ञानमुच्यते न त्वक्षरविषयम् । किंच ब्रह्मभूतस्य भक्तिलाभोक्तेस्तस्य चानन्दां - शाविर्भावात्मकत्वात्तस्य चाविद्यानाशजन्यत्वात्तस्य चाक्षरज्ञानजन्यत्वात् पूर्वकक्षाविश्रान्तमेवाक्षरज्ञानम् । एवं सत्यक्षरविषयिणीनां धियां श्रुतौ
2- ख reads कक्ष for कक्षा |
२४०
२५