________________
२३९ १. आधकारकाधिकरणम्। [अ. ३ पा. ३ सू. ३२ कीर्तनस्मरणानां मुक्त्यव्यवहितपूर्वक्षणे युगपदपि संभवादन्यथासिद्धिसंभवे विनिगमकाभावादेकेनैव मुक्तिरिति न नियमोतः प्रत्येकसाधकत्वबोधिकानां सर्वासां श्रुतीनां मिथो विरोधः । तहकत्र तथात्वे सर्वत्रैव तथास्त्वित्याशङ्कय बाधकमाह । शब्दानुमानाभ्यामिति । पूर्ववत्तत्र प्रत्येकमपि मुक्तिहेतुत्वमुच्यत इति न तथेत्यर्थः । यत्र प्रत्येकमपि तथात्वं तत्र किमु वक्तव्यं समुदितानां तथात्व इति भावः । तेन श्लिष्टः प्रयोगोयमिति ज्ञेयम् ॥ ३॥३३१ ॥ ९ ॥
... १० आधिकारिकाधिकरणम् । यावदधिकारमवस्थितिराधिकारिकाणाम् ॥३३॥३२॥
पूर्वं मुमुक्षुभिर्मुक्तिसाधनत्वेन क्रियमाणानां भगवद्धर्माणां मुक्तिसाधनप्रकारो विचारितः । अधुना तु भगवान् स्वविचारितकार्य लौकिकैश्वर्याद्यशक्यं ज्ञात्वा स्वैश्वर्यादिकं दत्त्वा येन जीवेन तत्कारयति. स जीवस्तैर्धमैर्मुक्तो भवति न वेति विचार्यते । तत्र जीवकृतभगवद्विषयकधर्माणां यत्र तत्साधकत्वं तत्र भगवदीयानां धर्माणां तत्साधकत्वं सुतरा१५ मेव । तेषां स्वकृत्यसाध्यत्वेनाविधेयत्वात् तत्साधनेष्वप्रवेशोपीति संदेहे निर्णयमाह । यांवदित्यादि । यस्मिन् जीवे यत्कार्यसाधनार्थमधिकारो भगवता दत्तस्तत्कार्यसाधनक्षमास्तास्मन् ये स्वधर्मा भगवता स्थापितास्त आधिकारिका इत्युच्यन्ते । तत्कार्यसंपत्तिरेव तदधिकारप्रयोजनामति तावदेव तेषां तस्मिन् स्थितिरित्यर्थः । एवं सति तत्संपत्तौ सोपि निवर्तत २० इति तत्संबन्धिनो धर्मा अपि निवर्तन्त्र इति मुक्तिपर्यन्तं न तेषां व्यापार
संभवो भगवता तथैव विचारितत्वान्मुक्तिस्तु भक्त्यवेति भावः । यच्चब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्त कृतात्मानः प्रविशन्ति परं पदम् ॥ इति वाक्यं तत्त्वाकल्पान्तं येषामधिकारः सप्तर्षिप्रभृतीनां तद्विषयकामिति ज्ञेयम् । अन्यथा भगवद्दत्ताधिकारसामर्थ्यस्य २५ भरतस्य स्वाधिकारसमाप्ठौ मुक्तिं न वदेत् । कृतात्मान इति पदात्तेषा