________________
अ. ३ पा. 3 सू. ३१ ]
अणुभाष्यम् ।
२३८
1
ध्यायते प्रेमति शृणोति श्रावयत्युपदिशत्याचरति सोमृतो भवति सोमृती भवति ( गो. पू. ता. १ ) इति । तत्र धारणादीनां समुदितानामेवामृतसाधकत्वमुत प्रत्येकमपीति भवति संशयः । अत्र धारणादिसाधनकलापमुक्त्वा फलमुच्यत इति समुदितानामेव मुक्तिसाधकत्वम् । उपलक्षणं ५ चैतच्छ्रवणादिनवविधभक्तीनामप्येवमेव तथात्वमिति पूर्वपक्षे सिद्धान्तमाह । अनियम इति । समुदितानामेव तेषां फलसाधकत्वमिति नियमो नास्तीत्यर्थः । अत्रोपपत्तिमाह । सर्वासामविरोध इति । चिन्तयंश्वेतसा कृष्णं मुक्तो भवति संसृतेः ( गो . पू. ता. २ ) इति श्रुत्या चिन्तनमा - त्रस्य तथात्वमुच्यते । पञ्चपदीं जपन् इत्यायुक्त्वा ब्रह्म संपद्यते ब्रह्म १० संपद्यते ( गो . पू. ता. २ ) इति श्रुत्या कीर्तनमात्रस्य तथात्वमुच्यते । तथा च प्रत्येकपक्ष एव सर्वासां श्रुतीनामविरोधः स्यात् । एवं सति परब्रह्मैतद्यो धारयतीत्यादिषु सोमृतो भवतीति पदं प्रत्येकं संबध्यत इति ज्ञेयम् । ननु यथा दण्डादीनां प्रत्येकं घटहेतुस्वोक्तावपि नैकस्यैव तज्जनकत्वमेवमत्राप्येकैकस्य चिन्तनादेस्तथात्वोक्तावपि फलसाधकत्वं १५ समुदितानामेव तेषामिति चेत् । मैवम् । योर्थो यत्प्रमाणैकसमधिगम्यः स 1 तेन प्रमाणेन यथा सिध्यति तथा मन्तव्यः । दण्डादेस्तथास्वं प्रत्यक्षेण गृह्यत इति तत्र तथास्तु । प्रकृते तु तेषां तथात्वमलौकिकशब्दसमधिगम्यम् । श्रुतिस्तूक्तैव । न चोक्कन्यायः श्रुतिष्वपि तात्पर्यनिर्णायको भवतीति वाच्यम् । अलौकिकेर्थे लौकिकस्यासामर्थ्यात् । अन्यथा ब्रह्मणा १० मनसैव प्रजाजनने निषेकादिकमपि कल्प्येत । स्मृतिरपि केवलेन हि भावेन गोप्यो गावः खगा मृगाः । येन्ये मूढधियो नागाः सिद्धा मामी - युरञ्जसा ॥ ( भा. ११।१२।८ ) एतावान् सांख्ययोगाभ्याम् - इत्युपक्रम्यान्ते नारायणस्मृतिरित्यादिरूपैवमेवाह । इममेवार्थं हृदि कृत्वाह सूत्रकारः । शब्दानुमानाभ्यामिति । श्रुतिस्मृतिभ्यामित्यर्थः । ते चोक्ते । २५ एतेन सूत्रकारस्यान्योप्यनुशयोस्तीति भाति । यत्रोक्तसाधनस्तोमसंपत्तिरेकस्मिन् भक्तेस्ति तत्रैकनैव मुक्तावितर साधनत्वबोधकश्रुतिविरोधाच्छ्रवण
7 - A and C read तत्र for अत्र ।