________________
९ अनियमाधिकरणम् ।
[ अ. पा. ३ सू. ३१
1
स्तदुपलब्धेः । स्वाधीनत्वेन तत्प्रामेरित्यर्थः । यद्यपि पुरुषोत्तमे प्रवेशे तदानन्दानुभवो भवति तथापि न प्रभोस्तदधीनत्वम् । भक्तितिरोभावात् । प्रत्युत वैपरीत्यम् । भजनानन्दस्य तत आधिक्यं तु मुक्तिं ददाति कर्हिचित्
मन भक्तियोगम् (भा. ५/६ / १८ ) दीयमानं न गृह्णन्ति विना मत्सेवनं ५ जनाः (भा. ३।२९।१३ ) नारायणपरा: ( भा. ६ । १७।२८) इत्युपक्रम्य स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिन इत्यादिवाक्यैरध्यवसीयते । अत एव सामीप्यवाच्युपसर्ग उक्तः । तेन दासीत्वेन दासत्वेन लीलायां सुहृत्त्वेन प्रभुनिक स्थितिरुक्ता भवति । न च महत्पदार्थस्वरूपाज्ञानादल्प एवानन्दे यथा सर्वाधिक्यं मन्वानः पूर्वोक्तं न वाञ्छति तथात्रापीति वाच्यम् । १० दीयमानानामर्थानां स्वरूपाज्ञानासंभवात् । अनुभवविषयीक्रियमाणत्वस्यैवात्र दीयमानपदार्थत्वात् । तदज्ञाने स्वर्गादित्रये तुल्यदर्शित्वासंभवश्व | मुक्तिं ददाति कर्हिचित् स्म न भक्तियोगम् ( भा. ५/६ । १८ ) इति वाक्ये भक्तेराधिक्यं स्पष्टमेवोच्यते । तस्मान्न्यूनार्थजिघृक्षोः सकाशात्पूर्णार्थवान् महानिति युक्तमेवास्योपपन्नत्वम् । इममेवार्थं दृष्टान्तेनाह । लोक१५ वदिति । यथा स्वाधीनभर्तृका नायिका तदवस्थाननुगुणगृहवित्तादिकं दीयमानमपि नोरीकरोति तथेत्यर्थः ।
1
२३७
अथवा स भगवानेव लक्षणमसाधारणो धर्मों यस्य स तल्लक्षण उद्भटभक्तिभावः स एवार्थः स्वतन्त्रपुरुषार्थरूप इत्यग्रे पूर्ववत् । भगवत्प्राकट्यवानेव हि भक्तो भक्तत्वेन ज्ञायत इति तथा । एतेन ज्ञाप्यं हि २० ज्ञापकादधिकं भवति । एवं सति यज्ञापकं परमकाष्ठापन्नं वस्तु पुरुषो - तमस्वरूपं सर्वफलरूपं तन्महत्त्वं कथं वक्तुं शक्यमिति सूच्यते ॥ ३।३।३० ॥ ८ ॥
२५
९ अनियमाधिकरणम् । अनियमः सर्वासामविरोधः शब्दा
नुमानाभ्याम् || ३।३।३१॥ ॥ अथर्वणोपनिषत्सु पठ्यते । परब्रह्मयो धारयति रसति भज