________________
अ. 3 पा. . सू. २९] अणुभाभ्यम् ।
२३६ स्वभक्तिबलस्फूर्त्या सदोषमपि जनं कृतार्थीकरिष्यामीत्यङ्गीकर्याच्चेद्भक्तस्तदैव हृदिस्थ एव तत्संसर्गजं दोषमस्यैतदङ्गीकारेण तद्दोषमपि धुनोतीति सर्वपदेनोच्यते । चिरकालभोग्यमपि तत्क्षणेनैव नाशयति । तन्नाशने फालादेरपतिबन्धकत्वमित्यपि ज्ञापयितुं परस्य कालादेरीशत्वमुक्तम् । । भत्र भजनादिहन्निवेशान्तानां स्पष्ट एव विकर्मणि सत्यपि संभव इति ।। ३।३।२९ ॥७॥
८ उपपन्नाधिकरणम् । उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ ३॥३॥३०॥
ननु मुक्तेरेव सर्वत्र फलत्वमुच्यते । युक्तं चैतत् । संसृतेर्दुःखात्म.. कत्वात् तन्निवृत्तेः सर्वेषामिष्टत्वात् । पुष्टिमार्गीयभक्तानां तु तदनपेक्षित्वमुच्यते । तदुक्तमथर्वणोपनिषत्स्वष्टादशार्णमन्त्रस्वरूपमुक्त्वा पठ्यते । परब्रह्मैतद्यो धारयतीत्यादेरन्ते सोमृतोभवतीत्यादि । एतद्ग्रे किं तद्रूपं किं रसनं कथं हैतद्भजनमित्यादिप्रश्नोत्तरं पठ्यते । भक्तिरहस्यभजनं तदिहामुत्रोपाधिनैराश्येनैवामुष्यात्मनः कल्पनमेतदेव नैष्कर्म्यमिति । ५ एतदत्र विचार्यते । मन्त्रावृत्तितदधिष्ठातृरूपध्यानादेरमृतत्वं फलमुच्यते। भजनस्वरूपं च यावत्फलनैराश्येन भगवत्यात्मनः कल्पनमित्युच्यते । न च फलनैराश्येन भजनेप्यन्ते मुक्तिरेव भवित्रीति वाच्यम् । त यथा यथोपासते तथैव भवति तद्वैतान्भूत्वावति । इति श्रुतेर्मुक्तिसाधनत्वेन ज्ञात्वा भजतः सैव फलम् । स्वरूपस्यैव स्वतन्त्रपुरुषार्थत्वमनुभवन् १. यो भजते तस्य तदेव फलमिति यतो निर्णयः संपद्यते । ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् (भ. गी. ४।११ ) इति भगवद्वाक्याच । अत एव रहस्यभजनं लक्ष्यमुक्तम् । तथा च श्रौतत्वभगवत्संबन्धित्वयोरविशेषात् कतमो गरीयानिति संशये गूढाभिसंधिः पठति । मुमुक्षोः
सकाशादहस्यभजनकतैवोपपन्नः उपपत्तियुक्तः । तमेवोद्घाटयति तल्लक्ष२५ णार्थोपलब्धेरिति । तल्लक्षणो भगवत्स्वरूपात्मको योथः स्वतन्त्रपुरुषार्थरूप