________________
२३५
७ गतरर्थवत्त्वमित्यधिकरणम् | [ अ. 3. 3 मू. २९
दिरूपा प्रेमरूपा च भक्तिरविशेषेण पापक्षय एवोदेत्युत कश्विद्विशेषस्ति । तत्राधुनिकानामपि भक्तानां दुःखदर्शनाच्छ्रवणादेः पापनाशकत्वश्रवणाच्चाविशेषपक्षस्त्वसंगतः । अथ श्रवणादिरूपा पापे सत्यपि भवति । प्रेमरूपा तु तन्नाश एवेति विशेषो वाच्यः । सोपि प्रेमवतामप्यक्रूरादीनां मणिप्रसंगे ५ भगवता समं कापट्यकृतिश्रवणान्न साधीयानित्यपि शङ्का निरस्ता वेदितव्या । तथाहि मर्यादापुष्टिभेदेनाङ्गीकारे वैलक्षण्यादायायामङ्गीकृतानां मुमुक्षयैव श्रवणादौ प्रवृत्तिस्तद्दातृत्वेनैव भगवति प्रेमापि न तु निरुपधिः । कदाचिद्वस्तुस्वभावेन मुक्तीच्छानिवृत्तावपि तद्भक्तेः साधनमार्गीयत्वाद्अनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते इति वाक्यादन्ते मुक्तिरेव भवित्री । १० आस्मन्मार्गे श्रवणादिभिः पापक्षये प्रेमोत्पत्तिस्ततो मुक्तिः । पुष्टिमार्गेङ्गीकृतेस्त्वनुग्रहसाध्यत्वात्तत्र च पापादेरप्रतिबन्धत्वाच्छ्रवणादिरूपा प्रेमरूपा च युगपत् पौर्वापर्येण वा वैपरीत्येन वा भवत्येव । अत्र श्रवणादिकमपि फलरूपमेव । स्नेहेनैव क्रियमाणत्वान्न विधिविषयः । न ह्यविद्यादिमुक्त्यन्त - रूपभजनानन्दान्तरायरूपाभ्रङ्कषाविरलविविधमहातरुगनानां दहने १५ लोलुपस्यानुग्रहानलस्य तदान्तरालिकपापतूलं प्रतिबन्धकमिति वक्तुं शक्यम् । तदुक्तं श्रीभागवते । स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यञ्चोत्पतितं कथंचिद धुनोति सर्वं हृदि संनिविष्ट: ( भा. ११ / ५ / ४२ ) इति । विकर्भ प्राक्तनं तद् दुःखदमिति । स्वयं च हरित्वेन दुःखहर्तेति धुनोत्युक्तविशेषणविशिष्टस्य स्वतो विकर्मकृत्यसं२० भवात् । सांसर्गिकं मत्तो भूतं न तु मया कृतमितिवद् वा यत्कृतं विकर्म तत्कथंचिदुत्पतितमित्युच्यते | त्यक्तान्यभावत्वेन भगवत्सेवाव्यासंगेनेन्द्रद्युम्नाख्यपाण्ड्यराजवन्महदागमनाद्यज्ञानं वा वक्तोक्तरूपे भक्ते विकमक्तावरुचिज्ञापनाय वा कथंचिदित्युक्तवान् । तेन तर्कितं विकर्मात्राप्यभिप्रेतामिति ज्ञायते । एतादृशस्यापि यदि विकर्म भवेत्तदा तन्निवृत्त्यर्थं न ३५ तेनान्यत्कर्तव्यम् । भगवानेव हृदि निविष्टस्तद्धनोति यत इति । कदाचि -
24- B and a read अन्नाभिप्रेतं for अत्राप्यभिप्रेतं ।