________________
अपा. ३ सू. २९]
अणुभाध्यम् ।
प्रायः श्रेयो भवेदिह ( भा. ६ | १४|६ ) इति वचनेन भक्तिमार्गीर्यस्य ज्ञाननैरपेक्ष्यमप्युच्यते । तथा चैवं मिथः श्रुत्योः स्मृत्योश्च विरोधान्नैकतरनिर्धारः संभवति । न च ज्ञानेनैव मोक्ष उभयत्रापि तथोक्तेः । ज्ञाननैरपेक्ष्योक्तिस्तु भक्तिस्तुत्यभिप्रायेति वाच्यम् । विषयभेदेन ज्ञानभेदान्मु५ क्तिसाधनं कतमज्ज्ञानमित्यनिश्वयात् । न च श्रतत्वाविशेषात्समुच्चय इति वाच्यम् । ज्ञानिनोक्षरे भक्तस्य पुरुषोत्तमे लयात् समुच्चयासंभवात् । तर्ह्येवं विरोधाभावादुपपन्नं सर्वमिति चेत् । न । पूर्वं ज्ञानमार्गीयज्ञानवतः पश्चान्मुक्तिमार्गीयज्ञानवतो लयस्थाननिर्धारासंभवात् । अपरं च । ततो मां तत्त्वतो ज्ञात्वा (भ.गी. १८/५५ ) इति वचनात् भक्तिमार्गे तत्त्वतो १० भगवज्ज्ञानमेव प्रवेशसाधनमिति मन्तव्यम् । तथा च - मल्कामा रमणं जारं मत्स्वरूपाविदोबलाः । ब्रह्म मां परमं प्रापुः संगाच्छतसहस्रशः भा. ११ । १२/१३ ) इति वाक्याज्ज्ञानमार्गीयभक्तिमार्गीयज्ञ। नरहितानामपि भगवत्प्राप्तेस्तत्साधनत्वनिरूपकश्रुतिविरोधः । तथा च क्वचिज्ज्ञानं मुक्तिसाधनत्वेनाच्यते कचिद्भक्तिः क्वचिन्नोभयमपीत्येकतरसाधनानिश्चयान्मुक्तिसाधने १५ मुमुक्षोः प्रवृत्त्यसंभव इति प्राप्त आह । गतेरर्थवत्त्वमित्यादि । गतेर्ज्ञानस्यार्थवत्त्वं फलजनकत्वमुभयथा मर्यादापुष्टिभेदेनेत्यर्थः । अत्रायमाशयः । एष उ एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति ( कौ. ३९ ) इत्यादिश्रुतिभ्यो भगवान् सृष्टिपूर्वकाल एवैतस्मै जीवायैतत्कर्म कारयित्वैतत्फलं दास्य इति विचारितवानिति तथैव भवति । तत्रोक्तरीत्या १० मुक्तिसाधनानुगमे हेतुरवश्यं वाच्यः । एवं सति कृतिसाध्यं साधनं ज्ञानभक्तिरूपं शास्त्रेण बोध्यते । ताभ्यां विहिताभ्यां मुक्तिर्मर्यादा । तद्रहितानामपि स्वरूपबलेन स्वप्रापणं पुष्टिरुच्यते । तथा च यं जीवं यस्मिन्मार्गेङ्गीकृतवांस्तं जीवं तत्र प्रवर्तयित्वा तत्फलं ददातीति सर्वं स्थम् । एव पुष्टिमार्गेङ्गीकृतस्य ज्ञानादिनैरपेक्ष्यं मर्यादायामङ्गीकृतस्य तदपेक्षित्वं १५ च युक्तमेवेति भावः । अत्र साधकत्वेन विपक्षे बाधकमाह । अन्यथा हि विरोध इति । अन्यथा मर्यादापुष्टिभेदेन व्यवस्थायों, अकथने विरोधाद्धेतोस्तथेत्यर्थः । विरोधस्तु पूर्वपक्षग्रन्थ उपपादितः । एतेनैव - ननु श्रवणा
1
९३४