________________
२३३
७ गतेरर्थवत्त्वमित्यधिकरणम् । [अ. 3 पा, 3 सू. २५
छन्दत उभयाविरोधात् ॥ ३३२८॥ छन्द इच्छा तथाच भक्तिमार्गीयाणामपि पूर्व पापानाशो यः स भगवदिच्छाविशेषतोतो भक्तेः पूर्वमेव पापनाशनिरूपकातन्नाशनिरूपकवचनयोरविरोधाद्धेतोभक्तेः पूर्वमेव पापनाश आवश्यक इत्यर्थः । एवं सति ५ भक्तेः पूर्वमेव तन्नाश औत्सर्गिकः । स क्वचिद्विशेषेच्छयापनोद्यत इति भावो ज्ञापितो भवति । अत्रेच्छाविशेषे वक्तव्यबहुत्वेपि किंचिदुच्यते । चिकीर्षितलीलामध्यपातिभक्ता न सोपधिस्नेहवत्यो न सगुणविग्रहा न वा सुकृतादियुक्ता इति ज्ञापयितुं कतिपयगोपीस्ताविपरीतधमयुक्ताः कृत्वा तस्यां दशायां स्वप्राप्तौ प्रतिबन्धं कारयित्वा स्वयमेव ० तां दशां नाशयित्वा स्वलीलामध्यपातिनीः कृतवानिति । न ह्येतावता सार्वदिक एवायं 'भावो भवति । न हि मन्त्रप्रतिबद्धशक्तिरमिरदाहक इति तत्स्वभावत्वमेव तस्य सार्वदिकमिति वक्तुं शक्यम् । एतच्च श्रीभागवतदशमस्कन्धविवृतौ प्रपञ्चितमस्माभिः ॥ २॥२८॥६॥
७ गतेरर्थवत्त्वमित्यधिकरणम् । ५ गतेरर्थवत्त्वमुभयथान्यथा हि विरोधः॥ ॥३॥२९॥
ननु-सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् (ते. २१) इति । तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेयनाय (तै. आ. ३१३) इत्यादिश्रुतिभिरुक्तरूपब्रह्मज्ञाने सत्येव मोक्ष
इत्युच्यते । यमेवैष वृणुते तेन लभ्यः ( मुं. १२।३ ) इति श्रुत्यात्मी२. यत्वेनाङ्गीकारात्मकवरणस्य भक्तिमार्गीयत्वात्तस्मिन् सति भक्तिमार्गे प्रवे
शाद्भक्त्यैव स इत्युच्यते । किं च । भक्त्या मामभिजानाति ( भ. गी. १८५५) इत्युक्त्वा-ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ( भ. गी. १८५५) इति भगवतोक्तामति भक्तिमार्गेपि पुरुषोत्तम
ज्ञानेनैव मोक्ष उच्यते । ज्ञानमार्गे त्वक्षरज्ञानेनेति विशेषः । २५ तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं 3-ख om. अतः before भक्तः।
• [अणुभाष्य )