________________
अ. पा. सू. २७ ]
अणुभाष्यम् ।
यामपि पापसत्त्वं वाच्यमन्यथा तरणासंभवापत्तेः । एवं सति भक्तिदशायामप्येवमेव न वेति भवति संशयः । तत्र श्रुतावविशेषेण पापनाशश्रवणान्मुचिपूर्वकाले पापनाशावश्यंभावादेकत्र निर्णीतः शास्त्रार्थोपरत्रापि तथेति न्यायेन भक्त्या पापनाशादत्रापि तथैवेति प्राप्त आह । संपराय इत्यादि । ५ संपरायः परलोकस्तस्मिन् प्राप्तव्ये सतीत्यर्थः । अथवा परः पुरुषोत्तमस्तस्यायो ज्ञानम् । तथा च सम्यग्भूतं पुरुषोत्तमज्ञानं येन स संपरायो भक्तिमार्ग इति यावत् । अथवा परे पुरुषोत्तमेयनमयो गमनं प्रवेश इति यावत्तथा च सम्यक् परायो येन स तथा भक्तिमार्ग इत्यर्थः । ज्ञानमार्गेक्षरप्राप्त्या भक्तिमार्गे पुरुषोत्तमप्राप्त्या तस्माद्विशेषमत्र ज्ञापयितुमेवं १० कथनम् । अतो भक्तेः पूर्वमेव पापनाशो युक्त इति भावः । ब्रह्मभूतस्य भक्तिलाभानन्तरं भक्त्या मामभिजानाति ( भ.गी. १८/५५ ) इति भगवद्वाक्यात्पुरुषोत्तमस्वरूपज्ञानस्य भक्त्यैकसाध्यत्वात्तथा । एवं सति - मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने । ( भां. ६।१४।५) मुक्तोपसृप्यव्यपदेशात् ( . सू. १।३।२ ) १५ जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥ जन्मान्तरसहस्रेषु समाराध्य वृषध्वजम् । वैष्णवत्वं लभेत्कश्चित्सर्वपापक्षयादिह ॥ इत्यादिवाक्यैः पापनाशानन्तरमेव भक्तिसंभवाद्भक्तस्य तर्तव्यपापादेरभावान्न ज्ञानमार्गीयतुल्यतेत्यर्थः ।
२३२
ननु - य एवं वेद (नृ. पू. ता. २१ ) इति सामान्यवचनात्पुरु२. षोत्तमविदाप्येवमेवेति चेत्तत्राह । तथा ह्यन्ये । तथा ज्ञानानन्तरमिति पापवन्तोन्ये भक्तिमार्गीयेभ्योन्य इत्यर्थः । उक्तवचनरूपोपपत्तिर्हिशब्देन ज्ञाप्यते || ३।३।२७ ॥
ननु भक्तिमार्गीयाणामपि गोपस्त्रीणां - दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः । ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः (भा. १०।२९।१० ) १५ इति वचनेन दुष्कृतसुकृतयोरपि हानि श्रवणात्पूर्वोक्तवचनैर्विरोध इत्याशङ्कायामुत्तरं पठति ।