________________
२३१
६ संपरायाधिकरणम् । [.3 पा. 3 सू. २७ __अपि च । श्रुतौ ब्रह्मोपायनस्य साम्योपायनहेतुत्वोक्त्या तदनुपायनस्य साम्यानुपायने हेतुत्वमिति ज्ञाप्यते । तथाच-पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ( ब्र. सू. ३।२।५ ) इति सूत्रे जीवस्य ब्रह्मांशत्वेनानन्दैश्वर्यादिब्रह्मधर्मवत्त्वाद् ब्रह्मणः सकाशाद्विभागे सति तदि५ च्छया तद्धर्मतिरोधानस्य संसारित्वे हेतुत्वमुक्तं यत्तदपि तदुक्तमित्यनेन स्मार्यत इति न विस्मर्तव्यम् । यथान्यशाखोक्तधर्मा अप्येकस्यां विद्यायामुपसव्हियन्त एवं ब्रह्मनिष्ठा धर्मा जीवेप्येतया श्रुत्या बोध्यन्त इत्येतावत्साम्यमस्तीत्युपसंहारप्रकरण एतस्य निरूपणं कृतम्॥३।३।२६॥५॥
६ संपरायाधिकरणम् । संपराये तर्तव्याभावात्तथा ह्यन्ये ॥२॥२७॥
वाजसनेयिशाखायां स एष नेति नेतीत्यात्मा (बृ. ३।९।२६) इत्युपक्रम्य-न व्यथते (बृ. ३।९।२६) इत्यन्तेन ब्रह्मस्वरूपमुक्त्वा यत एतादृग् ब्रह्मातस्तद्विदपि विवक्षितरूप इत्यभिप्रायेणाग्रे पठ्यते-अतः पाप
मकरवमतः कल्याणमकरवमित्युभे ह्येष एत तरत्यमृत इत्यादिनानि१५ मया-एष नित्यो महिमा ब्राह्मणस्य (बृ. ४।४॥२३) इत्यूचा च ब्रह्मविदो माहात्म्यमुक्त्वा पठ्यते । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्येत्सर्वमेनं पश्यति सर्वोस्यात्मा भवति सर्वस्यात्मा भवति सर्वं पाप्मानं तरति नैनं पाप्मा तरति (बृ. ४।४।२३)
इत्याद्युक्त्वान्ते पठ्यते-य एवं वेद (बृ. ४।४।२५) इति । अत्र हि पाप्म२०.तरणादिरूपं ब्रह्मज्ञानमाहात्म्यमुच्यते । ज्ञानस्य संसारमुक्तिहेतुत्वात् ।
आथर्वणोपनिषदादिषु तु भगवद्भक्तेर्मुक्तिहेतुत्वमुच्यते । परं ब्रह्मैतद्यो धारयतीत्युपक्रम्य भजति सोमृतो भवतीति । अग्रेपि मुक्तो भवति संसृतेरिति । एतद्विषयव्यवस्था तु पुरैवोक्तेति नात्रोच्यते । एतावान्परं संदेहः । य एवं वदति स पाप्मानं तरति (नृ. ता. पू. २।१ ) इति वचनाज्ज्ञानदशा
13- om. अंग्रे bolore पठच्यते ।