________________
ST. 3 71. 3. 26 ]
अणुभाष्यम् ।
२३०
तत्रेदं विचार्यते । साम्यं हि समानजातीयधर्मवत्त्वम् । तच्च कतिपयधर्मैरशेषतन्निष्ठधर्मैर्वा भवति । तत्रान्त्यः पक्षो ब्रह्मणा समं न संभवति । न तत्समश्चाभ्यधिकश्च दृश्यते ( श्वे. ६/८ ) इति श्रुतिविरोधादत आद्य एव पक्षोनुसर्तव्यः । तत्र कैर्धर्मैः साम्यमिहोच्यत इत्याकाङ्खायामाह । हानाविति । ब्रह्मणः सकाशाद्विभागो जीवस्य हानिशब्देनोच्यते । तथा च तस्यां सत्यां ये धर्मा जीवनिष्ठा आनन्दांशैश्वर्यादयो भगवदिच्छया तिरोहितास्ते ब्रह्मसंबन्धे सति पुनराविर्भूता इति तैरेव तथेत्यर्थः । भगवदानन्दादीनां पूर्णत्वाज्जीवानन्दादीनामल्पत्वान्नान्नैव समैर्धर्मैः कृत्वा ब्रह्मसाम्यं जीव उपचर्यते साम्यमुपैतीति । वस्तुतस्तु नैतैरपि ’• धर्मैः साम्यमिति भावः । अत एव - न तत्सम: ( श्वे. ६/८ ) इति श्रुतिरविरुद्धा | अत एव सूत्रकृता साम्यमुपैतीति साम्योपायनशब्दमात्रं न तु साम्यपदार्थः स्वारसिकोत्रास्तीति भावप्रकटनाय शब्दशब्द उक्तः । ननु तैरेव धर्मैः साम्यं नेतरैरित्यत्र को हेतुरित्याकाङ्क्षायामाह । उपायनशब्दशेषत्वादिति । परममुपैतीति य उपायशब्दस्तच्छेषत्वात्साम्योपायन१५ शब्दस्येत्यर्थः । ब्रह्मसंबन्धहेतुकत्वादानन्दांशाद्याविर्भावस्य तदैव साम्योपायनकथनात्तैरेव धर्मैः साम्यमभिप्रेतमिति भावः । नन्वानन्दादीनां ब्रह्मधर्मत्वात्तैस्तत्साम्यकथनं तदभेदमेव गमयतीत्याशङ्कय तद्धर्मवत्त्वमात्रस्य न तदभेदसाधकत्वमित्यत्र दृष्टान्तमाह । कुशेत्यादि । कुशा औदुम्बर्यः समिधस्ता अग्निष्टोमादियागेषु प्रस्तोत्रा स्थाप्यन्ते । तदा तत्संबन्धि यच्छ3. न्दः स्तुत्युपगानं तद्वदित्यर्थः । तत्र - अभि त्वा शूर नोनुमो दुग्धा इव धेनवः (ऋ. सं. ५/३/२१ ) इत्यचि ये वर्णास्तेषामच एवोपसंहृत्य भकारेणैव गानं क्रियते । न हि तदार्चिकवर्णधर्माणामचामुपसंहारोस्तीति तदृगात्मत्वं भकारस्य संभवति । एवं प्रकृतेपि ब्रह्मधर्मप्राकट्येन न तदात्मकत्वं जीवस्य संभवति । ननु तत्त्वमस्यादिवाक्यैरत्राभेदबोधनादस्तु २५ तथेति चेत्तत्राह । तदुक्तमिति । जीवब्रह्माभेदबोधनतात्पर्यमुक्तमित्यर्थः । तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ( ब्र. सू. २।३।२९) इति सूत्रेणेति शेषः ।
1-ख reads धर्मत्वं for धर्मवत्त्वम् ।