________________
२२९
५ वेधाद्यधिकरणम् ।
[ अ. पा. १६. १६
ह्येष इति सामगः पठ्यते । अतस्तत्र न पाप्मवेध इति भाव: । ब्रह्मणः स्वतन्त्र पुरुषार्थत्वज्ञापनायार्थपदेनों क्तिः । एतेन विभूतिरूपेपि यत्रैवं तत्र मूलभूतब्रह्मणि निर्दोषत्वं किं वाच्यमिति ज्ञापितम् । अथवार्थः प्रयोजनं विषय इति यावत् । तद्भेदादित्यर्थः । अत्रेदमाकूतम् । देवा हि स्वस्या - ५ सुरजयाय गानार्थं वागादीनचुस्त्वं न उद्द्वायेति गानानन्तरं यो वाचि भोगस्तं देवेभ्य आगायदित्युच्यते । एवमेव प्राणादिष्वपि स्वस्वभोगं देवेभ्य आगायदिति । एवं सति देवार्थमेवैतद्गानं न तु भगवदर्थम् । यद्यप्यासन्येप्येवमुच्यते तेभ्य एष प्राण उद्गायदिति तथापि यथा वागादिषु स्वनिष्ठभोगं देवेभ्य आगायदित्युक्तं तथा नासम्ये । तेनोक्तमानैर्ब्रह्मात्मकत्वेनासुरजयहेतुर्भगवत्संबन्ध एवेति ज्ञात्वा तथैवागायद (सन्य इति ज्ञायते । अत एवान्यत्र वेध उक्तोत्र तत्करणेच्छायामप्यासुराणां नाश उक्तः । अग्रे च भवत्यात्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद (बृ. १/३/७ ) इति पठ्यते । तेन परब्रह्म निर्दोषमिति किमु वाच्यम् । यत्र तद्विभूतिरूपासन्यस्योक्तरूपतां यो वेत्ति सोपि गुणयुक्तो दोषरहि१५ तश्च भवतीति कैमुतिकन्यायः सूचितो भवति । एतेन लोके दोषत्वेन ये धर्माः प्रतीयन्ते त एव धर्मा भगवति निरूप्यमाणा न दोषत्वेन ज्ञेयाः । किंतु गुणत्वेनैव । वस्तुन एव तथात्वादिति भावो ज्ञाप्यते ॥ ३।३।२५ ॥ एवं भगवत्संबन्धाभावे दोषसंबन्धमुक्त्वा तथा सति गुणहानिं च वदंस्तत्र विशेषमाह ।
१०
हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दःस्तुत्युपगानवत्तदुक्तम् || ३।३।२६ ।।
तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ( मुं. ३|१|३ ) इत्याथर्वणिकैः पठ्यते । परमपदेन बह्मोच्यते । तथा च सकार्याविद्यारहितः परममुपैति । तदनन्तरं साम्यमुपैतीति योजना |
3-0 reads निर्दोषत्वे for निर्दोषत्वं ।