________________
अ. 3 पा. . २५] अणुभाभ्यम् ।
२२८ उद्गीथेनात्ययामेति ते ह वाचमूचुस्त्वं न उद्गायेति तथेति तेभ्यो वागुदगायद् यो वाचि भोगस्तं देवेभ्य आगायद् यत्कल्याणं बदति तदात्मने ते विदुरनेन वै न उद्गात्रात्येष्यन्तीति तमभिद्रुत्य पाप्मनाविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं वदति स एव पाप्मेति । (बृ. १।३।१) एवमेव 'पाणचक्षुःश्रोत्रप्रभृतिषु पापवेधमुक्त्वोच्यते । अथैनमासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्ते विदुरनेन वै न उद्गात्रात्येज्यन्तीति तमभिद्रुत्य पाप्मनाविध्यत् स यथाश्मानमृत्वा लोष्ठो विध्वंसेतैव ह वै विध्वंसमाना विष्वञ्चो विनेशुः (बृ. १।३।३।) इति । छान्दोग्येपि पाणादिष्वेवमेव पाप्मवेधमुक्त्वासन्येन तथेत्युच्यते । एतावान्परं विशेषो " वाजसनेयिनां गानकर्तृत्वं सामगानामुद्गीथत्वेनोपास्यत्वमुच्यते वाक्माणादीनामिति । अत्र देहसंबन्धित्वमानकर्तृत्वयोरुपास्यत्वस्य चाविशेषेपि वागादिषु पाप्मवेध आसन्यप्राणे कुतो नेति भवति जिज्ञासा । न चासन्योपासनाया विधेयत्वात् तत्स्तुत्यर्थमन्येषु पाप्मवेध उच्यतेस्मिन्निति वाच्यम् । न हि प्रयोजनायासन्तमप्यर्थं बोधयति श्रुतिरिति वक्तुं शक्यम् । १५ प्रमाणत्वव्याहतिप्रसंगात् । एकत्र प्रतारकत्वे सर्वत्रापि तच्छङ्कया तदुक्ते
कोपि न प्रवर्तेतापि । साक्षाक्रियार्थत्वाभावेपि नासनिरूपकत्वमर्थवादानाम् । वस्तुतस्तु-यदेव विद्यया करोति श्रद्धयोपनिषदा वा तदेव वीर्यवत्तरं भवति (छां. १।१।१० ) इति श्रुतेः । ज्ञात्वा ज्ञात्वा च
कर्माणि जनोयमनुतिष्ठति । विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो १. भवेत् ॥ इत्यादिवाक्यैर्य एवं वेदेति वाक्यैश्चार्थवादोक्तस्वरूपं ज्ञात्वा .
कर्मकरणे पूर्ण फलमन्यथा नेत्यर्थवादानां फलोपकार्यनिरूपकत्वान्नानर्थक्यमत उक्तेर्थे हेतुं न पश्याम इति प्राप्ते।
तमेवाह । वेधादीति । वाक्प्राणादिषु यः पाप्मवेध आदिपदाद् दुष्टविषयसंबन्धश्च तत्र हेतुरर्थभेदः । अर्थो भगवांस्तस्मा - २५ दादित्यर्थः । आसन्यस्तु-य एवायं मुख्यः प्राणस्तमुपासीतेति छान्दोग्य
उपास्यत्वेनोक्तः। सर्ववेदान्तप्रत्ययम् (ब.सू.२१) इति न्यायावदान्त - पास्यं ब्रह्मातिरिकं नोच्यत इत्यासन्योपि ब्रह्माभिन्नोत एवापहतपाप्मा