________________
१५ वैधाद्यधिकरणम्
२२७
10
वेति । कुतः । सर्वत्र ब्रह्मण एवोपास्यत्वादत्राप्युपासनोक्तेर्ब्रह्मत्वपुरुषत्वयोरविशेषाद्विद्येक्यादिति प्राप्ते । उच्यते । पुरुषविद्यायामिवेति । अन्नमयादिषु सहस्रशीर्षवत्त्वादिकं नोपसंहर्तव्यम् । कुतः । पुरुषविद्यायां यथा पुरुषस्वरूपं निरूप्यते न तथेतरेषामन्नमयादीनां विज्ञानमयान्तानां ५ स्वरूपं तत्प्रकरणे निरूप्यते । अत्र हि पुरुषत्वमुच्यते । सहस्रपदमनेकत्वोपलक्षकम् । अन्यथाक्ष्णां शिरोभ्यो द्वैगुण्यं वदेत्तेन साकारव्यापकत्वमुक्तं भवति । तत्र पुरुषविधत्वं सचाध्यात्मिकरूपस्तच्छरीराभिमान्यात्मा चान्य आधिदैविक उच्यते । न तथात्र । किं च - पुरुष एवेद सर्वम् - इत्यादिना प्रपञ्चात्मकत्वं मुक्तिदातृत्वं चोक्त्वा नेतावन्मात्रमस्य माहात्म्यमि१. तोपि महन्माहात्म्यमस्तीति वक्तुं प्रपञ्चरूपं तद्विभूतिरूपमिति - एतावानस्य महिमा - इत्यनेनोक्त्वा तत आधिक्यमाह । अतो ज्यायांश्च पुरुष इति । एवमतिवैलक्षण्यात् पुरुषपदमात्रसाधम्र्येण नेकविधत्वं वक्तुं शक्यम् । न चोपसंहार इति । चकारात् - अम्भस्यपारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो महियान् (ते. ना. १ । १ । १ ) इत्यादिश्रुतयः । सर्वतः पाणिपादा१५ न्तम् ( भ. गी. १३।१३ ) इत्यादिस्मृतयश्व संगृह्यन्ते । एतेन यत्किंचि - द्धर्मसाम्येपि न मूलभूत ब्रह्मरूपत्वमत एव न तत्रोपास्यता तथात्वेनेति ज्ञापितम् । अत एव भृगूपाख्यानेन्नमयादिब्रह्मज्ञानेपि जिज्ञासैवोक्ता । भृगोरानन्दरूपपरब्रह्मज्ञाने तु नोक्ता । तेनाशेषगुणपूर्णं ब्रह्मेत्युक्तं भवत्यत उत्तमाधिकारिभिस्तदेवोपासनीयं न विभूतिरूपमिति ज्ञापितम् २. ॥ ३।३।२४।४ ॥
अ. ३पा. ३ सु. २५
अथ निर्दोषमिति ज्ञात्वा भजनीयमिति ज्ञापयितुमधिकरणान्तरमारभते । ५ वेधाद्यधिकरणम् । वेधाद्यर्थभेदात् ॥ ३।३।२५ ॥
वाजसनेयिशाखायां-द्वया ह वै प्राजापत्या: - (बृ. १/३/१ ) २५ इत्युपक्रम्य तेषां मिथः स्पर्धामुक्त्वोच्यते - ते ह देवा ऊचुर्हन्तासुरान् यज्ञ
•
5- A and C read प्रकरणे for तत्प्रकरणे ।