________________
अं. 3 पा. 3 सू. २३] अणुभाग्यम् ।
२२६ र्याणि तु ब्रह्मणा संभृतानि निष्प्रत्यूह संभृतानीत्यर्थः । तच्च ज्येष्ठं ब्रह्मान इन्द्रादिजन्मनः प्रागेव दिवं स्वर्गमाततान व्याप्नुवन्नित्यमेव विश्वव्यापकमित्यर्थः । देशतोपरिच्छेदमुक्त्वा कालतोपि तमाह । ब्रह्मेति । भूतानामाकाशादीनां पूर्वमेव जज्ञे । आविर्बभूवेत्यर्थः । एतेन वीर्यसंभृतियुव्या५ प्तिप्रभृतिमाहात्म्यमुक्तं भवति । तथाच संभृतिश्च धुव्याप्तिश्च तयोः समाहारस्तथा । एतावत्यपि सति तत्र नोपसंहार इति । तत्र हेतुः । न वाविशेषात् (ब्र. सू. ३।३।२१) इति सूत्रोक्त एवेत्यतिदिशत्यत एवेति । एतद्यथा तथा तत्रैवोक्तम् ।
विषयवाक्योत्तरा!कधर्मानुद्देशेनैवं ज्ञायते भक्तस्यैहिकपारलौकि१० कोपयोगिधर्मोपलक्षणार्थं द्वयोरेवोद्देशः कृत इति । चकारेण दर्शनमप्युक्तं
समुच्चीयते । अन्यच्च । स्पर्धाकृतिसंभावनायां हि तद्योग्यतानिषेधः संभवति । सा चाविर्भूत एव भगवति संभवतीत्यग्विलशक्तयाविर्भावपूर्वकमाविर्भूतस्य तस्यैतया श्रुत्या माहात्म्यमुच्यत इति गम्यते । एवं सत्येतद्वा
क्योक्तधर्मयोरेवानुपसंहार्यत्वेन यत्कथनं तत्तु भक्तहृद्याविभूतं ब्रह्माप्येवं१५ भूतमेवेति ज्ञापनायाता युक्त एवानुपसंहारः ॥ ३॥२३॥३॥
४ पुरुषविद्यायामित्यधिकरणम् । पुरुषविद्यायामिव चेतरेषामनानानात् ॥ २३॥२४॥
तैत्तिरीयके-सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमि विश्वतो वृत्त्वा अत्यतिष्ठदशाङ्गलम् । पुरुष एवेद सर्वं यद्भूतं यच्च १. भव्यम् ( तै. सं. ३।१२।१) इत्यादिना पुरुषविद्या निरूप्यते । तत्रैव
ब्रह्मविदाप्नोति परम् ( ते. २१) इति प्रश्ने-स वा एष पुरुषोन्नरसमयः ( तै. ३१२) इत्यारभ्य प्राणमयमनोयमविज्ञानमयानन्दमयात्मकब्रह्मस्वरूपं निरूप्यते । तत्र सर्वत्र स च पुरुषविध एव चेति पठ्यते । अत्रा.
नमयादिषु पुरुषसूक्तेच पुरुषपदश्रवणादन्नमयादिषु सहस्रशीर्षववाद्युप२५ संहारः कर्तव्यो न वेति भवति संशयः । किमत्र युक्तम् । उपसंहर्तव्यमे