SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २२५ ३ कार्यास्यानाधिकरणम्। [अ. 3 पा. 3 सू. २३ गुणोपसंहारेनुपसंहारे वा भक्तोपासनायां विशेषाभावादिन्यर्थः । अनुपसंहारस्यात्र बाधकत्वाभावज्ञापनाय वाशब्दः । विशेषादिति वा । पूर्व विहितत्वेन भगवदाकारादिषु भजनं कुर्वन्नप्युक्तरूपभक्तसंगेन तद्भजनेन च पूर्वस्माद्विशिष्टं रसमनुभूतवानिति रसास्वाद विशेषाद् गुणोपसंहारं स न ५ करोतीत्यनुवादः । विहितत्वेन गुणोपसंहारपूर्वकोपासनायां नीरसत्वेनानादरज्ञापनाय वाशब्दः। भगवदवताररूपोपि बादरायणः प्रासंगिकेपि भक्तिमार्गस्मरणे तदीयरसावेशपरवशस्तद्भावस्वभावमनूक्तवान् ॥३३॥२१॥ अपि च । उपसंहारो हि तत्रानुक्तानामन्यत्रोक्तानां गुणानां तत्र सत्त्वेन ज्ञानमात्रम् । उक्तरूपभक्ताय तु तद्भजनीये भक्त एवालो• किकाननुभावान् भगवान् प्रत्यक्षं दर्शयतीति न तत्रोपसंहारापेक्षागन्धोपीत्युत्तरं पठति । दर्शयति च ॥ २२ ॥ ॥ ३॥३२२॥ ननु भक्तभक्तः स्वसेव्येत्यलौकिकं वीर्य दृष्ट्वा तदाविष्टे भगवति .; तत्संभारकत्वस्येन्द्रादीनामपि तदाज्ञापेक्षित्वं दृष्ट्वा धुलोकव्यापकत्वस्योपसंहारं करिष्यतीत्याशङ्कयाह ।। . संमृतिधुव्याप्त्यपि चातः ॥ २३२३॥ . राणायनीयानां खिलेषु पठ्यते । ब्रह्मज्येष्ठा वीर्या संभृतानि ब्रह्माये ज्येष्ठं दिवमाततान । ब्रह्मभूतानां प्रथमं तु जज्ञे तेनार्हति ब्रह्मणा .. स्पर्धितुं कः ॥ (तै. बा. २।४।६) इति । अस्यार्थस्तु-अन्यैर्हि पुरुषैः सहायानपेक्ष्य विक्रमाः संभ्रियन्ते । तेन तत्पराक्रमाणां त एव नियतपूभावित्वरूपकारणत्वेन ज्येष्ठाः । ब्रह्मधर्माणां तु ब्रह्मैव ज्येष्ठमनन्यापेक्ष सृष्ट्यादि करोतीस्पर्थः । एवं सति ब्रह्म ज्येष्ठं येषां तानि ब्रह्मज्येष्ठानि वीर्याणि । अत्र छन्दसि बहुवचनस्य डादेशः । किंचान्येषां वीर्याणां ५ बलवद्भिर्मध्ये भङ्गोपि भवति । तेन ते स्ववीर्याणि न संबिभ्रति । ब्रह्मवी - - 9-M reads ज्ञापन for ज्ञान । २९ [ अणुभाष्य
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy