________________
अणुभाष्यम्।
सूत्राङ्काः
पृथाङ्काः। १८ प्रकृतितो जीवस्य कर्तृत्वमप्यस्मिन् वाक्येमभिमतम् । जीव- ११२
लयोद्गमयोर्ब्रह्मप्रतिपत्त्यर्थत्वात्प्रश्नव्याख्यानाभ्यां तथावसायात् । वाजसनेयिनामेतत्समानप्रकरणेपि तथावसायाच्चेत्युक्तम् । एवमत्र जीवब्रह्मवादनिराकरणेन जीवविशिष्टप्रकृतिरेव कारणमिति निराकृतम् ॥
___७ वाक्यान्वयाधिकरणम् । १९ मैत्रेयीब्राह्मणद्वये जीवस्य प्रकरणित्वं ब्रह्मणो वेति संशये ११३
वेदरूपमहावाक्यस्य ब्रह्मण्येवान्वयदर्शनात्सुखरूपभगवदन्वयेन जीवस्यैव प्रियत्वात्सर्वोपनिषदनुरोधेनास्यापि वाक्यस्य
ब्रह्मण्येवान्वयादत्रापि ब्रह्मैवोच्यते।। २० ब्रह्मणा स्वस्य भोगनिष्पत्त्यर्थं विस्फुलिङ्गवत्प्रकटीकृतः १११
स्वांशो जीवस्तेन जीवेनोपक्रमस्तस्यैव प्रियत्वेन संसूचनादुपक्रमस्य च बलिष्ठत्वाज्जीवात्मैव प्रकरणीति स एव ज्ञेयत्वेनापदिश्यत इति शङ्कायां नात्र जीवात्मनो ज्ञेयत्वेनोपदेशः किंतु परमात्मन एव । जीवनोपक्रमस्तु-आत्मनि वा विज्ञात इति प्रतिज्ञासिद्धर्लिङ्गरूपः । ब्रह्मैव जीवः । अतः संसारदशायामपि जीवो ब्रह्मैवेति ज्ञापनार्थं तदुपक्रमो न तु प्रकृतिसंसृष्टस्य जीवस्य कारणत्वार्थमिति काशकृत्स्नमतमुक्तं तस्मा
ब्रह्मैवात्र कारणत्वेनोच्यते । २१ यदत्र जीवोपक्रमेण भगवतः श्रवणादिकमुक्तं तन्मुक्तौ जीवो ११५
भगवानेव भविष्यतीति ज्ञापकम् । स्त्रिया विश्वासार्थं जीवोपक्रमः कर्तव्य एवेत्यौडुलोमिराचार्यों मन्यते । . २२ काशकृत्स्नस्तु मन्यते जीवोपक्रमो भगवत एवावस्थाविशेषो ११५
जीव इत्यस्य पक्षस्य लिङ्गम् । तस्मान्मैत्रेयीजाह्मणेनापि जीवद्वारा प्रकृतिकारणवादासिद्धिः ॥