________________
प्रतिसूत्रं श्रीमदणुभान्यतात्पर्यम् ।
सूत्राङ्काः
पृष्ठाङ्काः। तेन सांख्यमतसिद्धिरित्याशङ्कय समाधीयते । अत्र समासविशेषेण पञ्चसमूहरूपार्थसिद्धिः । सांख्यमते तु नेदृशी
संख्या। १२ बुद्धः संशयाद्या पञ्च वृत्तीजनयन्तीति पञ्चजनाः प्राणादयः। १०७
प्राणस्य प्राणमिति वाक्यशेषस्य मन्त्रार्थनियामकत्वात् ।
तस्माद्ब्रह्मवाद एवात्र न सांख्यवादः । १३ काण्वपाठे तद्देवा ज्योतिषामित्यन्नस्थाने ज्योतिर्याह्यम् । १०८ ततश्चार्थवादस्य निर्णायकत्वम् ॥
४ यथाव्यपदिष्टाधिकरणम् । १४ आकाशादिवाक्येषु यद्यपि क्रमादिविप्रतिपत्तिस्तथापि १०८
ब्रह्मणः कारणत्वविप्रतिपत्तिर्नास्ति । सर्वत्र सृष्टिवाक्येषु समानस्यैव ब्रह्मणः कारणत्वेनाभिप्रेतत्वात् । क्रमप्रकारादिभेदस्तु माहात्म्यस्यैव सूचकः । तस्मान्न श्रुतिविप्रतिषेधात्स्मृतिपरिग्रहः ॥
५ समाकर्षाधिकरणम् । १५ असदादिशब्देषु न निरात्मकत्वाद्यर्था उच्यन्ते किंतु ततः १०९
समाकर्ण्य सर्वैः शब्दैौवोच्यते । सर्वेषां शब्दानां प्रणवविकृतित्वेन प्रणवार्थ एव पर्यवसानात् प्रणवस्य च ब्रह्मवाचकत्वात् । तस्मान्न श्रुतिविप्रतिषेधः ॥
६ जगद्वाचित्वाधिकरणम् । १६ यो वै बालाक इत्यजातशत्रुणा सिद्धान्तकथनोपक्रम एत- ११०
च्छब्देनादित्यमण्डलादिजडोल्लेखात्पुरुषशब्देन च जीवोल्लेखाजीवजडात्मकं जगद्यत्कर्तृकं तस्य वेदितव्यत्वकथनेन
श्रुत्यन्तरसिद्धब्रह्मण एव कर्तृत्वं न प्रकृत्यभिमानिजीवस्य । १७ जीवमुख्यप्राणदर्शनान्न ब्रह्मणः कर्तृत्वमित्याशङ्कय जीवस्य १११
ब्रह्माश्रितत्वान्मुख्यप्राणस्य च ब्रह्मयोगादत्र तथात्वेन कथनं न स्वेन रूपेण तस्माद्ब्रह्मैव कर्तृ ।