________________
अणुभाष्यम् ।
सूत्राङ्काः
पृष्ठाङ्काः। ७ यथा महच्छब्दो महान्तं विभुमित्यादौ ब्रह्मपरस्तथाव्यक्तशब्दो-१०४ प्यक्षरपरस्तस्मादिन्द्रियादिवाक्ये न सांख्यमतसिद्धिः ॥
२ चमसवदित्यधिकरणम्। ८ अजामेकामितिवाक्येजादिशब्दैः प्रकृतिः परामृश्यते । अग्रे १०४
च कपिलस्य नाम पठ्यते । यद्यपि किंकारणेत्युपक्रमाद्ब्रह्मविद्यात्वेनोपनिषत्प्रतीयते तथापि पूर्वकाण्डे यथा प्रणवादिमन्त्राणां नानास्थले विनियोगान प्रकरणानुरोधस्तथैतेष्वपि मश्रेषु कापिलमतप्रत्यभिज्ञानानोपक्रमाद्यनुरोध इति सांख्यमतमपि वैदिकमित्याशङ्कय समाधीयते। यथार्वाग्बिलश्चमस इतिबृहदारण्यकमन्त्रस्थकर्मविशेषेर्वाग्बिले चमसे यशोरूपं सोमं सप्त होतारो भक्षयेयुरिति कल्पयितुं न शक्यते तथा प्रकृते लोहितशुक्लादिशब्दैः रजःसत्त्वादि कल्पयित्वा तद्वशेन सर्वं मतं कल्पयितुं न शक्यते । विशेषाभावात्। कपिलवाक्यपि कपि
लशब्देन ब्रह्मैवोच्यते न त्वनित्यर्षिः। ९ अत्राजाशब्देन ज्योतिरुच्यते प्रथमकार्यरूपत्वाञ्चतुर्मुखाजत्व- १०५ न्यायेन । यथा हजाल्पदोग्नी तथेयं नश्वरसुखदात्री । चतुष्कलब्रह्मपादरूपत्वाज्ज्योतीरूपा । अत्रोपक्रमे ब्रह्मणः प्रकृतत्वात्तदेवामिरिति कथनाच्च । सा च चेतनाधिष्ठिताये द्वा सुपर्णेति कथनात् अजद्वयं च जीवब्रह्मरूपं ताभ्यामधिष्ठिता । एतच्छान्दोग्यशाखायामधीयते । अत्र हि किंचित्कार्यार्थ परोक्षवादेनाजाशब्दस्तस्यां कल्पन- १०६ योपदिश्यते । यथाजा बर्करसहिता सवत्सा स्वामिहिता तथेयं भगवल्लीलोपयोगायेति भगवतः परोक्षप्रियत्वाञ्चेति । तथा च मध्वादिविद्यावदत्र कल्पना तस्मान्नाजामन्त्रेण सांख्यमतासद्धिः॥
३ न संख्योपसंग्रहाधिकरणम् । ११ यस्मिन् पञ्च पञ्चजना इति वाक्ये समासविशेषेण पञ्च- १०६
विंशतिसंख्यासंग्रहादत्र सांख्यसिद्धानि पञ्चविंशतितत्त्वानि